वर्ग संक्रमण

वर्गान्तरं राशिवियोगभक्तम् ।
योगस्ततः प्रोक्तवदेव राशी ।।५९॥

राश्योर्ययोर्वियोगोऽष्टौ तत्कृत्योश्च चतःशती ।
विवरं वद तौ राशी शीघ्रं गणितकोविद ॥६०॥

इष्टकृतिरष्टगुणिता व्यैका दलिता विभाजितेष्टेन ।
एकः स्यादस्य कृतिर्दलिता सैका परो राशिः ॥६१॥

रूपं द्विगुणेष्टहृतं सेष्टं प्रथमोऽथवापरो रूपम् ।
कतियुतिवियुतीव्येके वर्गौ स्यातां ययो राश्योः ॥६१ अ॥

राश्योर्ययोः कृतिवियोगयुती निरेके ।
मूलप्रदे प्रवद तौ मम अर्थमित्र यत्र॥
क्लिश्यन्ति बीजगणिते पटयोऽपि मूढाः ।
षोढोक्तगूढगणितं परिभावयन्तः ॥६२॥

इष्टस्य वर्गवर्गो घनश्च तावष्टसंगुणौ प्रथमः ।
सैको राशी स्यातां, एव व्यक्तेऽथवाऽव्यक्ते ॥६३॥

पाटीसूत्रोपमं बीजं गूधमित्येव भासते ।
नास्ति गूढमगूढानां नैव षोढेत्यनेकधा ॥६४॥

अस्ति त्रैराशिकं पाटी बीजं च विमला मतिः ।
किमज्ञातं सुबुधीनामतो मन्दार्थमुच्यते ॥६५॥

Hits: 391
X

Right Click

No right click