विलोम

छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम्‌ ।

ऋणं स्वं स्वमृणं कुर्यात्‌ द्रूश्ये राशिप्रसिद्धये ॥

अथ स्वांशाधिकोने तु लवाढ्योनो हरो हरः ।

अंशस्त्वविकृतस्तत्रविलोमे शेषमुक्तवत्‌ ॥४६॥

यस्त्रिघ्नस्त्रिभिरन्वितः स्वचरणैर्भक्तस्ततः सप्तभिः ।

स्वत्र्यंशेन विवर्जितः स्वगुणितो हीनो द्विपंचाशता ॥

तन्मूलेऽष्टयुते हृते च दशभिर्जातं द्वयं ब्रूहि तम्‌ ।

राशी वेत्सि हि चंचलाक्षि विमलां बाले विलोमक्रियाम्‌ ॥४८॥

Hits: 412
X

Right Click

No right click