प्रकरण १० – भिन्नपरिकर्माष्टक

अन्योन्यहाराभिहतौ हरांशौ । राश्यो: समच्छेदविधानमेवम् ।
मिथो हराभ्यामपवर्तिताभ्याम् । यद्वा हरांशौ सुधियात्र गुण्यौ ॥ ३० ॥

रूपत्रयं पंचलवस्त्रिभागो । योगार्थमेतान्वद तुल्यहारान् ।
त्रिषष्टिभागश्च चतुर्दशांशः । समच्छिदौ मित्र वियोजनार्थम् ॥३१॥

द्रम्मार्धत्रिलवद्वयस्य सुमते पादत्रयं यद्भवेत् ।
तत्पंचांशक षोडशंशचरणः संप्रार्थितेनार्थिने ।
दत्तो येन वराटकाः कति कदर्येणाएपितास्तेन मे ।
ब्रूहि त्वं यदि देत्सि वत्स गणिते जातिरभागाभिधाम् ॥३३॥

छेदघ्नरूपेषु लवा धनर्णम् । एकस्यभागा अधिकोनकाश्चेत् ॥
स्वांशाधिकोनः खलु यत्र तत्र । भागानुबंधे च लवापवाहे ॥
तलस्य हारेणा हरं निहन्यात् । व्वांशाधिकोनेन तु तेन भागान् ॥३४॥   

सांघ्रिद्वयं त्रयं व्यंघ्रि कीदृक बॄहि सवर्णितम् ।
जानास्यंशानुबंधं चेत्तथा भागापवाहनम् ॥३५॥

अंघ्रिः स्वत्र्यंशयुकतः स निजदलयुतः कीदृशः कीदृशी द्वौ ।
त्र्यंशौ स्वाष्टांशहीनौ तदनु च रहितौ स्वत्रिभिः सप्तभागैः ॥
अर्थं स्वाश्तौंशहीनं नवभिरथ युतं सप्तमांशैः स्वकीयैः ।
कीदृवस्त्यात्ब्रूहि वेत्सि त्वमिह यदि सखेंऽशानुबंधापवाहौ ॥३६॥