पहिल्या प्रकरणाचे नाव परिभाषा असून त्यात कोष्टके दिली आहेत. १२-१२ व्या शतकात चालू असलेल्या नाण्यांचे कोष्टक, सुवर्ण तोलण्याची मापे, लांबीची परिमाणे, धान्य परिमाणे,  वेळेची परिमाणे, संख्यास्थान यांची माहिती देणारे संस्कृत श्लोक आहेत.

 

 

प्रीतिं भक्तजनस्य यो जनयते विघ्नं विनिघ्नन्‌ स्मृतः ।

तं वृंदारकवृंदवंदितपदं नत्वा मतंगाननम्‌ ॥

पाटीं सद्‌ गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटाम्‌ ।

संक्षिप्ताक्षरकोमलामलपदैर्लालित्यलीलावतीम्‌ ॥१॥

वराटकानां दशकद्वयं यत्‌ सा काकिणी ताश्च पणश्चतस्रः ।

ते षोडश द्रम्म इहावगम्यो, द्रम्मैस्तथा षोडशभिश्च निष्कः ॥२॥

तुल्या यवाभ्याम्‌ कथितात्र गुञ्जाः। वल्लस्त्रिगुञ्जो धरणं च तेऽष्टौ ॥

गद्याणकस्तद्‌द्वयमिन्द्रतुल्यैः । वल्लैस्तथैको घटकः प्रदिष्टः ॥३॥

दशार्धगुंजं प्रवदन्ति माषं । माषाव्हयैः षोडशभिश्च कर्षम्‌ ॥

कर्षैश्चतुर्भिश्च पलं तुलाज्ञाः । कर्षं सुवर्णस्य सुवर्णसंज्ञम्‌ ॥४॥

यवोदरैरङ्‍गुलमष्टसंख्यैः । हस्तोऽङ्‍गुलैः षड्‌गुणितैश्चतुर्भिः ॥

हस्तैश्चतुर्भिर्भवतीह दण्डः । क्रोशः सहस्रद्वितयेन तेषाम्‌ ॥५॥

स्याद्योजनं क्रोशचतुष्टयेन । तथा कराणां दशकेन वंशः ॥

निवर्तनं विंशतिवंशसंख्यैः । क्षेत्रं चतुर्भिश्च भुजैर्निबद्धम्‌ ॥६॥

हस्तोन्मितैः विस्तृतिदैर्घ्यपिण्डैः । यद्‌ द्वादशास्त्रंघनहस्तसंज्ञम्‌ ॥

धान्यादिके यत्‌ घनहस्तमानम्‌ । शास्त्रोदिता मागधखारिका सा ॥ ७॥

द्रोणस्तु खार्याः खलु षोडशांशः । स्यादाढको द्रोणचतुर्थभागः ॥

प्रस्थश्चतुर्थांश इहाढकस्य । प्रस्थांघ्रिराद्यैः कुडवः प्रदिष्टः ॥८॥

पादोनगद्याणकतुल्यटंकैः । द्विसप्ततुल्यैः कथितोऽत्र शेरः ॥

मणाभिधानं खयुगैश्च शेरैः । धान्यादिमानेषु तुरुष्कसंज्ञाः ॥९॥

शेषा कालादिपरिभाषा लोकप्रसिद्धा ज्ञेया ॥१०॥

Hits: 1523
X

Right Click

No right click