मूलमराठीस्तोत्रकार:- दिवाकर:-[अधुना अज्ञात:, कालोपि अज्ञात:]

जय जय गणपते, देहि विपुलां मतिं मे, कर्तुं तव स्तुतिं रे, स्फूर्तिं देहि अपाराम् 1.
तव नाम मंगलमूर्ति:, त्वां देवेन्द्रो ध्यायति, विष्णु: पूजयति, अव्यय: त्वं गणेश 2.
[अव्यय: = य: शाश्वतं फलं यच्छति]
तव नाम विनायक:, गजवदन: त्वं मंगलदायक:, सकलकलिमलदाहक:, प्रसीद त्वं सत्वरम् 3.
अहं तव चरणांकित:, तव चरणे मे प्रणिपात:, देवाधिदेव: त्वम् एकदंत:, श्रुणु विज्ञापनाम् एकां मम 4.
मम लाडनं ते कर्तव्यम्, अपत्यम् इव पालनं, संकटेषु रक्षणं, सर्वं त्वया हि करणीयम् 5.
गौरीपुत्र: त्वं गणपति:, श्रूयतां सेवकस्य विनति:, अहं तव अनन्यार्थी, रक्ष मां सर्वथा देवेश. 6.
त्वमेव मम जनक, त्वमेव देवराज, [सम्बोधने]-योगक्षेमं वहसि मम, अनाथनाथ गणपते. 7.
गजवदन लम्बोदर, सिद्धिविनायक भालचन्द्र [भालचन्द्र:= गणेशोपि], हेरम्ब शिवपुत्र, विघ्नेश्वर नमस्ते.8.
भक्तपालक वरदरूप, गजानन परशुहस्त, सिन्दूरवर्ण विघ्ननाशन, मंगलमूर्ते कृपां कुरु. 9.
विश्ववदन, विघ्नेश्वर, मंगलाधीश, परशुधर, पापमोचन सर्वेश्वर, दीनबन्धु: नाम तव. 10.
नमनं मे गणनाथ, नमनं मे विघ्नहर, नमनं मे एकदन्त, दीनबन्धो नमस्ते. 11.
नमनं मे शम्भुतनय, नमनं मे करुणालय, नमनं मे गणराज, स्वामिन् ते प्रणमाम्यहम् 12.
नमनं मे देवराज, नमनं मे गौरीतनय, नमनं मे भालचन्द्र, तव चरणौ वन्दे अहम् 13.
नास्ति आशा फलस्य, नास्ति अपेक्षा वरस्य, केवलं तव दर्शनस्य, आशा मे प्रबलास्ति. 14.
अहं मूढश्च अज्ञानी, चरणौ ते ध्यायामि, लम्बोदर दर्शनं देहि, कृपां कुरु जगदीश. 15.
मतिमन्दोहं बालक:, त्वं सर्वेषां चालक:, भक्तजनानां पालक:, त्वमेव गजमुख . 16.
स्वामिन् अभागी दरिद्रोस्मि, चित्तं तिष्ठतु तव नाम्नि, अनन्यशरण्य: तवास्मि, दर्शनं देहि कृपाकर 17.
गणपतिस्तोत्रस्य करोति पठनं, तस्मै स्वामी ददाति अपारधनं,
विद्यासिद्ध्यो: अगाधज्ञानं, सिन्दूरवदनो यच्छति. 18.
तस्य पिशाचादि बाधा, नापि भवति एकदा, [=एकदा अपि न भवति],
स्वामिनं य: भजति सदा, स्तुतिस्तोत्रं जपति च. 19.
षण्मासजपेन लभ्यते सिद्धि:, असत्यं न भवति कदापि,
गणपतिचरणे सदा हि, दिवाकरस्य मस्तकम्. 20.
इति श्रीगणपतिस्तोत्रं सम्पूर्णम्. श्रीगजाननार्पणमस्तु.
[प्राय; 90% संस्कृतशब्दा: मराठीस्तोत्रे आसन्. मया केवलं संस्कृतक्रियापदानि प्रयुक्तानि. मराठीभाषकै: अपि मूलस्तोत्रं पठितं न स्यात्. ये मराठीभाषां न जानन्ति, केवलं संस्कृतं जानन्ति, तेषाम् अपि लाभाय भवेत्. मराठीभाषायाम् ‘ओवी’ इति काव्यप्रकार: अस्ति, स: एव प्रयुक्तोस्ति अत्र. प्रत्येकं चरणे त्रिवारं यति: भवति.
रूपान्तरकार: दयाकर दाब्के, भोपालम् 09584233753.

Hits: 1153
X

Right Click

No right click