मूळ मराठी गीत-
पराधीन आहे जगती पुत्र मानवाचा - ग. दि. माडगूळकर

संस्कृत रूपांतर - दयाकर दाबके, भोपाळ

पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य
दैवजातं दु:खं भरत, दोषो नाऽपि कस्य,
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य ॥ध्रु.॥

मातृकैकय्या: दोषो नाऽस्ति न वा दोषी तात:
राज्यत्यागकाननयात्रा: सर्वं कर्मजातम्
क्रीडा प्रारब्धा मम पूर्वसंचितस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (१)

अन्त: उन्नतेर्भवति पतने सर्वस्य,
नाशो हि अन्तो वत्स, सर्वसंग्रहस्य
वियोगार्थं मिलनं भवति, नियमोऽयं विश्वस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (२)

जीवेन सहजो मृत्यु:, द्वंद्वं जन्मजातम्,
दृष्यते भासते यत् तद् विश्वं नश्वरं च
किमर्थं शोको मूढ़, स्वप्नस्थफलस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (३)

तात: स्वर्गवासी जातो, बन्धु: वनेऽस्ति,
अतर्क्यं न जातं किमपि, यदि अकस्मात्‌
मरणकल्पना हि अस्ति सीमा रे तर्कस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (४)

जन्ममरणेभ्य: कोऽपि प्राणिजातो मुक्तो
दु:खमुक्तो जीवति वा रे कोऽपि जीवलोके
वर्धमत् तत् तत् याति मार्गं रे क्षयस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (५)

काष्ठद्वयस्याऽपि भवति सरित्पतौ मिलनम्
एकतरंगेण भवति तत् पुन: भिन्नम्
क्षणिकं तथा भवति वत्स, मिलनं रे जनस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (६)

मार्जयस्व नेत्रे तव, मास्तु रे रूदनं
तव च मम चाऽस्ति भिन्नं हि गमनम्
अयोध्याया: भव त्वं राजा, रङकोऽहं वनस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (७)

अयोध्यायां मां नेतुं मा यतस्व व्यर्थम्,
पितृवचनपालनेन कृतार्थौ भवाव
मुकुटकवचे धारय त्वं, न वेषं तापसस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (८)

चतुर्दशवर्षाणां च समाप्तिं यावत्,
अयोध्यागमनं नाऽस्ति, सत्यं हि त्रिवारम्
त्वं हि एक: स्वामी अधुना, राज्यवैभवस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (९)

पुन: न एतु कोऽपि दूरम्‌ एतद्‌ काननम्‌
प्रेमभावो न: तिष्ठति मन्मनसि नूनम्
वर्धयस्व मानं लोके, अयोध्यापुरस्य
पराधीनो ह्यस्ति जगति, पुत्रो मानवस्य (१०)

दयाकर दाबके, भोपाळ २५/०२/२०१२
मो० ९४२५६९३७५३

Hits: 520
X

Right Click

No right click