एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्ट्इण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।
भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।
भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्न: उद्गमं प्रति विविधा: पारम्पर्यकथा: प्रचलिता: वर्तन्ते | ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्ती आसीत् तेन प्रशासितस्य भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च||

उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥

भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदानीन्तनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि. पू. २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनपश्चिमोत्तरभारते अवसन्। स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते। भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । अस्य सीमा पश्चिमे पाकीस्थानेन, ईशान्ये चैना-नेपाल-भूतानदेशैः परिवृता, बर्मा बङ्ला देशौ पूर्वदिशायां स्तः। श्रीलङ्का, मालाद्वीपः च हिन्दुमहासागरे भारतस्य समीपवर्तिनौ ।
हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-सिक्किं -भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति । हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः पर्वतश्रेण्यः सन्ति ।

Hits: 485
X

Right Click

No right click