जानुमात्रं च निद्धरि बहूनां च द्वयो : क्रमात् ।
कतम : कतर : संख्येयविशेषावधारणे ॥६१॥

द्वितीयश्च तृतीयश्च चतुर्थ : षष्ठपञ्चमौ ।
एकादश : कतिपयथ : कतिथ : कति नारद ॥६२॥

विंशश्च विंशतितमस्तथा शततमादय : ।
द्वेधा द्वैधा द्विधा संख्या प्रकारेऽथ मुनीश्वर ॥६३॥

रियावृत्तौ पञ्चकृत्वो द्विस्त्रिर्बहुश इत्यपि ।
द्वितयं त्रितयं चापि संख्यायां हि द्वयं त्रयम्‌ ॥६४॥

कुटीरश्च शमीरश्च शुण्डारोऽल्पार्थके मत : ।
स्त्रैण : पौंस्नस्तुण्डिभश्च वृन्दारककृषीवलौ ॥६५॥

मलिनो विकटो गोमी भौरिकिबिधमुत्कटम्‌ ।
अवटीटोऽवनाटश्च निविडं चेक्षुशाकिनम्‌ ॥६६॥

निविरीसमैषुकारिभक्तं विद्याचणस्तथा ।
विद्याचञ्चुर्बहुतिथं पर्वत : श्रृङ्गिणस्तथा ॥६७॥

स्वामी विषमं रूप्यं चोपत्यकाधित्यका तथा ।
चिल्लश्च चिपिटं चिक्कं वातूलं कुतुपस्तथा ॥६८॥

बलूलश्च हिमेलुश्च कहिकश्चोपडस्तत : ।
ऊर्णायुश्च मरुत्तश्चैकाकी चर्मण्वती तथा ॥६९॥

ज्योत्स्त्रा तमिस्त्राऽष्टीवच्च कक्षीवद्रुमण्वती ।
आसन्दीवच्च चक्रीवत्तूष्णीकां जल्पतक्यपि ॥७०॥

कंव : कम्भश्च कंयुश्च कन्ति : कन्तुस्तथैव च।
कन्त : कंयश्च शंवश्च शम्भ : शंयुस्तथा पुन : ॥७१॥

शन्ति : शन्तु : शन्तशंयौ तथाहंयु : शुभंयुवत्‌।
भवति बभूवभविताभविष्यतिभवत्वभवद्भवेच्चापि ॥७२॥

Hits: 417
X

Right Click

No right click