अथ हल् सन्धिः

६२ स्तोः श्चुना श्चुः

सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । रामश्शेते । रामश्चिनोति । सच्चित् । शाङिर््गञ्जय ।। .

६३ शात्

शात्परस्य तवर्गस्य चुत्वं न स्यात् । विश्नः । प्रश्नः ।। .

६४ ष्टुना ष्टुः

स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ।। .

६५ न पदान्ताट्टोरनाम्

पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् ? ईट्टे । टोः किम् ? सर्पिष्टमम् । (अनाम्नवतिनगरीणामिति वाच्यम्) । षण्णवतिः । षण्णगय्र्यः ।। .

६६ तोः षि

न ष्टुत्वम् । सन्षष्ठः ।। .

६७ झलां जशोऽन्ते

पदान्ते झलां जशः स्युः । वागीशः ।।.

६८ यरोऽनुनासिकेऽनुनासिको वा

यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः, एतद् मुरारिः । (प्रत्यये भाषायां नित्यम्) । तन्मात्रम् ।

चिन्मयम् ।। .

६९ तोर्लि

तवर्गस्य लकारे परे परसवर्णः । तवर्गस्य लकारे परे परसवर्णः । तल्लयः । विद्वाँल्लिखति । नस्यानुनासिको लः । .

७० उदः स्थास्तम्भोः पूर्वस्य

उदः परयोः स्थास्तम्भोः पूर्वसवर्णः ।।.

७१ तस्मादित्युत्तरस्य

पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ।।.

७२ आदेः परस्य

परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । इति सस्य थः ।। .

७३ झरो झरि सवर्णे

हलः परस्य झरो वा लोपः सवर्णे झरि ।। .

७४ खरि च

खरि झलां चरः । इत्युदो दस्य तः । उत्थानम् । उत्तम्भनम् ।। .

७५ झयो होऽन्यतरस्याम्

झयः परस्य हस्य वा पूर्वसवर्णः । नादस्य घोषस्य संवारस्य महाप्राणस्य ताद्ृशो वर्गचतुर्थः । वाग्घरिः, वाग्हरिः ।। .

७६ शश्छोऽटि

झयः परस्य शस्य छो वाऽटि । तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः । तच्छिवः, तच्शिवः । (छत्वममीति वाच्यम्) तच्छ्लोकेन ।। .

७७ मोऽनुस्वारः

मान्तस्य पदस्यानुस्वारो हलि । हरिं वन्दे ।। .

७८ नश्चापदान्तस्य झलि

नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यशांसि । आक्रंस्यते । झलि किम् ? मन्यते ।। .

७९ अनुस्वारस्य ययि परसवर्णः

स्पष्टम् । शान्तः ।। .

८० वा पदान्तस्य

त्वङ्करोषि, त्वं करोषि ।। .

८१ मो राजि समः क्वौ

िक्वबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ।। .

८२ हे मपरे वा

मपरे हकारे परे मस्य मो वा । किम् ह्मलयति, किं ह्मलयति । (यवलपरे यवला वा)। किंय्ँ ह्यः, किं ह्यः । किव्ँ ह्वलयति, किं ह्वलयति । किल्ँ ह्लादयति, किं ह्लादयति ।। .

८३ नपरे नः

नपरे हकारे मस्य नो वा । किन् ह्नुते, किं ह्नुते ।। .

८४ आद्यन्तौ टकितौ

टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ।। .

८५ ङ्णोः कुक्टुक् शरि

वा स्तः । (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्) । प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः । सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः ।। .

८६ डः सि धुट्

डात्परस्य सस्य धुड्वा । षट्त्सन्तः, षट् सन्तः ।। .

८७ नस्च

नान्तात्परस्य सस्य धुड्वा । सन्त्सः, सन्सः ।। .

८८ शि तुक्

पदान्तस्य नस्य शे परे तुग्वा । सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः ।। .

८९ ङमो ह्रस्वादचि ङमुण् नित्यम्

ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ।। .

९० समः सुटि

समो रुः सुटि ।। .

९१ अत्रानुनासिकः पूर्वस्य तुवा

अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा ।। .

९२ अनुनासिकात्परोऽनुस्वारः

अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः ।। .

९३ खरवसानयोर्विसर्जनीयः

खरि अवसाने च पदान्तसाय रेफस्य विसर्गः । (संपुंकानां सो वक्तव्यः) । सँस्स्कर्ता, संस्स्कर्ता ।। .

९४ पुमः खय्यम्परे

अम्परे खयि पुमो रुः । पुँस्कोकिलः, पुंस्कोकिलः ।। .

९५ नश्छव्यप्रशान्

अम्परे छवि नान्तस्य पदस्यरुः; न तु प्रशान्शब्दस्य ।। .

९६ विसर्जनीयस्य सः

खरि । चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व । अप्रशान् किम् ? प्रशान्तनोति । पदस्येति किम् ? हन्ति ।। .

९७ नॄन् पे

नॄनित्यस्य रुर्वा पे ।। .

९८ कुप्वोः एक एपौ च

कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः । नॄँ ए पाहि, नॄःँ ए पाहि, नॄःंपाहि । नॄन्पाहि ।।.

९९ तस्य परमाम्रेडितम्

द्विरुक्तस्य परमाम्रेडितम् स्यात् ।। .

१०० कानाम्रेडिते

कान्नकारस्य रुः स्यादाम्रेडिते । काँस्कान्, कांस्कान् ।। .

१०१ छे च

ह्रस्वस्य छे तुक् । शिवच्छाया ।। .

१०२ पदान्ताद्वा

दीर्घात् पदान्तात् छे तुग्वा । लमीच्छाया, लमी छाया ।।.

Hits: 721
X

Right Click

No right click