अथाच्सन्धिः
१५ इको यणचि
इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्य इति स्थिते ।।.
१६ तस्मिन्निति निर्दिष्टे पूर्वस्य
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ।।.
१७ स्थानेऽन्तरतमः
प्रसङ्गे सति सदृशतम आदेशः स्यात् । सुध्य् उपास्य इति जाते ।।.
१८ अनचि च
अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते ।।.
१९ झलां जश् झशि
स्पष्टम् । इति पूर्वधकारस्य दकारः ।।.
२० संयोगान्तस्य लोपः
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् ।।.
२१ अलोऽन्त्यस्य
षष्ठीनिर्दिष्टोऽन्त्यस्याल आदेशः स्यात् । इति यलोपे प्राप्ते – (यणः प्रतिषेधो वाच्यः) । सुद्ध्युपास्यः । मद्ध्व्ंरिः । धात्त्रंशः । लाकृतिः ।।.
२२ एचोऽयवायावः
एचः क्रमादय् अव् आय् आव् एते स्युरचि ।।.
२३ यथासंख्यमनुदेशः समानाम्
समसंबन्धी विधिर्यथासंख्यं स्यात् । हरये । विष्णवे । नायकः । पावकः ।।.
२४ वान्तो यि प्रत्यये
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गव्यम् । नाव्यम् । (अध्वपरिमाणे च) । गव्यूतिः ।।.
२५ अदेङ् गुणः
अत् एङ् च गुणसंज्ञः स्यात् ।।.
२६ तपरस्तत्कालस्य
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात् ।।.
२७ आद्गुणः
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् । उपेन्द्रः । गङ्गोदकम् ।।.
२८ उपदेशेऽजनुनासिक इत्
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा ।।.
२९ उरण् रपरः
ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । कृष्णर्द्धिः । तवल्कारः ।।.
३० लोपः शाकल्यस्य
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे ।।.
३१ पूर्वत्रासिद्धम्
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् । हर इह, हरयिह । विष्ण इह, विष्णविह ।।.
३२ वृद्धिरादैच्
आदैच्च वृद्धिसंज्ञः स्यात् ।।.
३३ वृद्धिरेचि
आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ।।.
३४ एत्येधत्यूठ्सु
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् ? उपेतः । मा भवान्प्रेदिधत् । (अक्षादूहिन्यामुपसंख्यानम्) । अक्षौहिणी सेना । (प्रादूहोढोढ्येषैष्येषु) । प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैष्यः । (ऋते च तृतीयासमासे) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् ? परमर्तः । (प्रवत्सतरकम्बलवसनार्णदशानामृणे) । प्रार्णम्, वत्सतरार्णम्, इत्यादि ।।.
३५ उपसर्गाः क्रियायोगे
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः । प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप – एते प्रादयः ।।.
३६ भूवादयो धातवः
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ।।.
३७ उपसर्गाद्ृति धातौ
अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्राच्र्छति ।।.
३८ एङि पररूपम्
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात् । प्रेजते । उपोषति ।।.
३९ अचोऽन्त्यादि टि
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात् । (शकन्ध्वादिषु पररूपं वाच्यम्) । तच्च टेः । शकन्धुः । कर्कन्धुः मनीषा । आकृतिगणोऽयम् । मार्त्तण्डः ।।.
४० ओमाङोश्च
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवाया नमः । शिव एहि ।।.
४१ अन्तादिवच्च
योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत् । शिवेहि ।।.
४२ अकः सवर्णे दीर्घः
अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । होतॄकारः ।।.
४३ एङः पदान्तादति
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ।।.
४४ सर्वत्र विभाषाः गोः
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते । गोअग्रम्, गोऽग्रम् । एङन्तस्य किम् ? चित्रग्वग्रम् । पदान्ते किम्? गोः ।।.
४५ अनेकाल् शित्सर्वस्य
इति प्राप्ते ।।.
----
४६ ङिच्च
ङिदनेकालप्यन्त्यस्ययैव स्यात् ।।.
४७ अवङ् स्फोटायनस्य
पदान्ते एङन्तस्य गोरवङ् वाऽचि । गवाग्रम्, गोऽग्रम् । पदान्ते किम् ? गवि ।।.
४८ इन्द्रे च
गोरवङ् स्यादिन्द्रे । गवेन्द्रः ।।.
४९ दूराद्धूते च
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा ।।.
५० प्लुतप्रगृह्या अचि नित्यम्
एतेऽचि प्रकृत्या स्युः । आगच्छ कृष्ण ३ अत्र गौश्चरति ।।.
५१ ईदूदेद् द्विवचनं प्रगृह्यम्
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू ।।.
५२ अदसो मात्
अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात्किम् ? अमुकेऽत्र ।।.
५३ चादयोऽसत्वे
अद्रव्यार्थाश्चादयो निपाताः स्युः ।।.
५४ प्रादयः
एतेऽपि तथा ।।.
५५ निपात एकाजनाङ्
एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात् । इ इन्द्रः । उ उमेशः । ’वाक्यस्मरणयोरङित्; आ एवं नु मन्यसे । आ एवं किल तत् । अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम् ।।.
५६ ओत्
ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ।।.
५७ सम्बुद्धौ शाकल्यस्येतावनार्षे
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति, विष्ण इति, विष्णविति ।।.
५८ मय उञो वो वा
मयः परस्य उञो वो वाऽचि । किम्वुक्तम्, किमु उक्तम् ।।.
५९ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च
पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि । ह्रस्वविधिसामथ्र्यान्न स्वरसन्धिः । चक्रि अत्र, चक्रय्त्र । पदान्ता इति किम् ? गौर्यौ -.
६० अचो रहाभ्यां द्वे
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । गौय्र्यौ । (न समासे) । वाप्यश्वः ।।.
६१ ऋत्यकः
ऋति परे पदान्ता अकः प्राग्वद्वा । ब्रह्म ऋषिः, ब्रह्मर्षिः । पदान्ताः किम् ? आर्छत् ।।.
इत्यच्सन्धिः
Hits: 551