आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे|
आप्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः|

पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः|
चाऽन्वाचयसमाहारेतरेतरसमुच्चये|

स्वस्त्याशीः क्षेमपुण्याऽऽदौ प्रकर्षे लङ्घनेऽप्यति|
स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे|

सकृत् सहैकवारे चाप्याराद्दूरसमीपयोः|
प्रतीच्यां चरमे पश्चादुताऽप्यर्थविकल्पयोः|

पुनस्सहाऽर्थयोः शश्वत् साक्षात्प्रत्यक्षतुल्ययोः|
खेदाऽनुकम्पासंतोषविस्मयाऽऽमन्त्रणे बत|

हन्त हर्षेऽऽनुकम्पायां वाक्याऽऽरम्भविषादयोः|
प्रति प्रतिनिधौ वीप्सालक्षणाऽऽदौ प्रयोगतः|

इति हेतुप्रकरणप्रकर्षाऽऽदिसमाप्तिषु|
प्राच्यां पुरस्तात्प्रथमे पुराऽर्थेऽग्रत इत्यपि|

यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे|
मङ्गलाऽनन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ|

वृथा निरर्थकाऽविध्योर् नानाऽनेकोभयाऽर्थयोः|
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु|

प्रश्नाऽवधारणाऽनुज्ञाऽनुनयाऽऽमन्त्रणे ननु|
गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि|

उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते|
अमा सह समीपे च कं वारिणि च मूर्धनि|

इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये|
तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने|

नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने|
अलं भूषणपर्याप्तिशक्तिवारणवाचकम|

हुं वितर्के परिप्रश्ने समयाऽन्तिकमध्ययोः|
पुनरप्रथमे भेदे निर् निश्चयनिषेधयोः|

स्यात्प्रबन्धे चिराऽतीते निकटाऽऽगामिके पुरा|
ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम|

स्वर्गे परे च लोके स्वर् वार्तासंभाव्ययोः किल|
निषेधवाक्याऽलङ्कारजिज्ञासाऽनुनये खलु|

समीपोभयतश्शीघ्रसाकल्याऽभिमुखेऽभितः|
नामप्राकाश्ययोः प्रदुर् मिथोऽन्योन्यं रहस्यपि|

तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु|
अहहेत्यद्भुते खेदे हि हेताववधारणे|

इति नानाऽर्थवर्गः

Hits: 432
X

Right Click

No right click