दलेऽपि बर्हं निर्बन्धोपरागाऽर्काऽऽदयो ग्रहाः|
द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके|

तुलासूत्रेऽश्वाऽऽदिरश्मौ प्रग्राहः प्रग्रहोऽपि च|
पत्नीपरिजनाऽऽदानमूलशापाः परिग्रहाः|

दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः|
व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः|

परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे|
 इति हान्ताः|

Hits: 407
X

Right Click

No right click