रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू|
वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः|

शृङ्गाराऽऽदौ विषे वीर्ये गुणे रागे द्रवे रसः|
पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे|

देवभेदेऽनले रश्मौ वसू रत्ने धने वसु|
विष्णौ च वेधाः स्त्री त्वाशीर्हिताऽऽशंसाऽहिदंष्ट्रयोः|

लालसे प्रार्थनौत्सुक्ये हिंसा चौर्याऽऽदिकर्म च|
प्रसूरश्वाऽपि भूद्यावौ रोदस्यौ रोदसी च ते|

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु|
पापाऽपराधयोरागः खगबाल्याऽऽदिनोर्वयः|

तेजः पुरीषयोर्वर्चो महश्चोत्सवतेजसोः|
रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः|

छन्दः पद्येऽभिलाषे च तपः कृच्छ्राऽऽदिकर्म च|
सहो बलं सहा मार्गो नभः खं श्रावणो नभाः|

ओकः सद्माऽऽश्रयश्चौकाः पय: क्षीरं पयोऽंबु च|
ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये|

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु|
विद्वान् विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी|

वृद्धप्रशंसयोर्ज्यायान् कनीयांस्तु युवाऽल्पयोः|
वरीयांस्तूरुवरयोः साधीयान् साधुबाढयोः|

इति सान्ताः|

Hits: 374
X

Right Click

No right click