दवदावौ वनाऽरण्यवह्नी जन्महरौ भवौ|
मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः|

अवयः शैलमेषाऽर्का आज्ञाऽऽह्वानाध्वरा हवाः|
भावः सत्तास्वभावाऽभिप्रायचेष्टाऽऽत्मजन्मसु|

स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने|
अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः|

उत्सेकाऽमर्षयोरिच्छाप्रसरे मह उत्सवः|
अनुभावः प्रभावे च सतां च मतिनिश्चये | 

स्याज्जन्महेतुः प्रभवः स्थानं चाऽऽद्योपलब्धये | 
शूद्रायां विप्रतनये शस्त्रे पारशवो मतः|

ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु|
स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने|

स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च|
शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः|

द्रव्याऽसु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु|
क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे|

इति वान्ताः|

Hits: 396
X

Right Click

No right click