अस्ति कस्मिंश्चित् समुद्रोपकंठे महान् जंबू-पादपः सदा-फलः। तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म। तत्र च तस्य तरोर् अधः कदाचित् करालमुखो नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपांते न्यविशत। ततश् च रक्तमुखेन स प्रोक्तः-भोः! भवान् समभ्यागतोऽतिथिः। तद् भक्षयतु मया दत्तान्य् अमृत-तुल्यानि जंबू-फलानि। 

एवम् उक्त्वा तस्मै जंबू-फलानि ददौ। सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखम् अनुभूय भूयोऽपि स्व-भवनम् अगात्। एवं नित्यम् एव तौ वानर-मकरौ जंबू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयंतौ सुखेन तिष्ठतः। सोऽपि मकरो भक्षित-शेषाणि जंबू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति। अथान्यतमे दिवसे तया स पृष्टः-नाथ! क्वैवंविधान्य् अमृत-फलानि प्राप्नोषि?

स आह-भद्रे! ममास्ति परम-सुहृद् रक्तमुखो नाम वानरः। स प्रीति-पूर्वकम् इमानि फलानि प्रयच्छति।

अथ तयाभिहितम्-यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयम् अमृत-मयं भविष्यति। तद् यदि भार्यया ते प्रयोजनं, ततस् तस्य हृदयं मह्यं प्रयच्छ। येन तद् भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान् भुनज्मि।

स आह-भद्रे! मा मैवं वद। यतः स प्रतिपन्नोऽस्माकं भ्राता। अपरं फल-दाता। ततो व्यापादयितुं न शक्यते। तत् त्यजैनं मिथ्याग्रहणम्।

अथ मकर्य् आह-त्वया कदाचिद् अपि मम वचनं नान्यथा कृतम्। तन् नूनं सा वानरी भविष्यति, यतस् तस्या अनुरागतः सकलम् अपि दिनं तत्र गमयसि। तत् त्वं ज्ञातो मया सम्यक्। यतः-

सोऽपि पत्न्याः पादोपसंग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिम् आपन्नायाः 
सापि तद्-वचनम् आकर्ण्याश्रुप्लुत-मुखी तम् उवाच-

अपरं सा यदि तव वल्लभा न भवति, तत् किं मया भणितोऽपि तां न व्यापादयसि। अथ यदि स वानरस् तत् कस् तेन सह तव स्नेहः? तत् किं बहुना? यदि तस्य हृदयं न भक्षयामि, तन् मया प्रायोपवेशनं कृतं विद्धि।

एवं तस्यास् तन् निश्चयं ज्ञात्वा चिंता-व्याकुलित-हृदयः स प्रोवाच-

तत् किं करोमि? कथं स मे वध्यो भवति। इति विचिंत्य वानर-पार्श्वम् अगमत्। वानरो ऽपि चिराद् आयांतं तं सोद्वेगम् अवलोक्य प्रोवाच-भो मित्र! किम् अद्य चिर-वेलायां समायातोऽसि? कस्मात् साह्लादं नालपसि? न सुभाषितानि पठसि।

स आह-मित्र! अहं तव भ्रातृ-जायया निष्ठुरतरैर् वाक्यैर् अभिहितः-भोः कृतघ्न! मा मे त्वं स्वमुखं दर्शय, यतस् त्वं प्रतिदिनं मित्रम् उपजीवसि। न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि। तत् ते प्रायश्चित्तम् अपि नास्ति। 

तत् त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहम् आनय। नो चेत् त्वया सह मे पर-लोके दर्शनम् इति। तद् अहं तयैवं प्रोक्तस् तव सकाशम् आगतः। तद् अद्य तया सह त्वद्-अर्थे कलहायतो ममेयती वेला विलग्ना। तद् आगच्छ मे गृहम्। तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्य्-उचिताभरणा द्वार-देश-बद्ध-वंदन-माला सोत्कंठा तिष्ठति। मर्कट आह-भो मित्र! युक्तम् अभिहितं मद्-भ्रातृ-पत्न्या। उक्तं च-

परं वयं वनचराः युष्मदीयं च जलान्ते गृहम्। तत् कथं शक्यते तत्र गंतुम्। तस्मात् ताम् अपि मे भ्रातृ-पत्नीम् अत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि।

स आह-भो मित्र! अस्ति समुद्रांतरे सुरम्ये पुलिन-प्रदेशेस्मद्-गृहम् । तन् मम पृष्ठम् आरूढः सुखेनाकृतभयो गच्छ।

सोऽपि तच् छ्रुत्वा सानंदम् आह-भद्र! यद्य् एवं तत् किं विलंब्यते। त्वर्यताम्। एषो ऽहं तव पृष्ठाम् आरूढः।

तथानुष्ठितेऽगाधे जलधौ गच्छंतं मकरम् आलोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः! शनैः शनैर् गम्यताम्। जल-कल्लोलैः प्लाव्यते मे शरीरम्।

तद् आकर्ण्य मकरश् चिंतयामास-असाव् अगाधं जलं प्राप्तो मे वशः सञ्जातः। मत्-पृष्ठ-गतस् तिल-मात्रम् अपि चलितुं न शक्नोति। तस्मात् कथयाम्य् अस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति। आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य। तत् स्मर्यताम् अभीष्ट-देवता।

स आह-भ्रातः! किं मया तस्यास् तवापि चापकृतं येन मे वधोपायश् चिंतितः?

मकर आह-भोः! तस्यास् तावत् तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः। तेनैतद् अनुष्ठितम्।

प्रत्युत्पन्न-मतिर् वानर आह-भद्र! यद्य् एवं तत् किं त्वया मम तत्रैव न व्याहृतम्? येन स्व-हृदयं जंबू-कोटरे सदैव मया सुगुप्तं कृतम्। तद् भ्रातृ-पत्न्या अर्पयामि। त्वयाहं शून्य-हृदयोऽत्र कस्माद् आनीतः?

तद् आकर्ण्य मकरः सानंदम् आह-भद्र! यद्य् एवं तद् अर्पय मे हृदयम्। येन सा दुष्ट-पत्नी तद् भक्षयित्वानशनाद् उत्तिष्ठति। अहं त्वां तम् एव जंबू-पादपं प्रापयामि। एवम् उक्त्वा निवर्त्य जंबू-तलम् अगात्। वानरोऽपि कथम् अपि जल्पित-विविध-देवतोपचार-पूजस् तीरम् आसादितवान्। ततश् च दीर्घतर-चंक्रमणेन तम् एव जंबू-पादपम् आरूढश् चिंतयामास-अहो! लब्धास् तावत् प्राणाः। अथवा साध्व् इदम् उच्यते-

तन् ममैतद् अद्य पुनर् जन्म-दिनम् इव सञ्जातम्।

इति चिंतयमानं मकर आह-भो मित्र! अर्पय तद्धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनाद् उत्तिष्ठति।

अथ विहस्य निर्भर्त्सयन् वानरस् तम् आह-धिग् धिङ् मूर्ख विश्वास-घातक! किं कस्यचिद् धृदय-द्वयं भवति? तद् आशु गम्यतां जंबू-वृक्षस्याधस्तान् न भूयोऽपि त्वयाऽत्रागन्तव्यम्। उक्तं च यतः-

तच् छ्रुत्वा मकरः संविलक्षं चिंतितवान्-अहो! मयातिमूढेन किम् अस्य स्व-चित्ताभिप्रायो निवेदितः। तद् यद्य् असौ पुनर् अपि कथञ्चिद् विश्वासं गच्छति, तद् भूयोऽपि विश्वासयामि। आह च-मित्र! हास्येन मया तेभिप्रायो लब्धः। तस्या न किञ्चित् तव हृदयेन प्रयोजनम्। तद् आगच्छ प्राघुणिक-अन्यायेनास्मद्-गृहम्।

वानर आह-भो दुष्ट! गम्यताम्। अधुना नाहम् आगमिष्यामि।

Ref: https://sa.wikisource.org/s/12w

Hits: 1131
X

Right Click

No right click