कस्मिंश्चिदधिष्ठाने ब्रह्मदत्तनामा ब्राह्मणः प्रतिवसति स्म ।
स च प्रयोजनवशाद्ग्रामे प्रस्थितः स्वमात्राभिहितः यद्वत्स कथमेकाकी व्रजसि । तदन्विष्यतां कश्चिद्वितीयः सहायः ।
स आह अम्ब मा भैषीः । निरुपद्रवोऽयं मार्गः । कार्यवशादेकाकी गमिष्यामि ।
अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थवाप्याः सकाशात्कर्कटमादाय मात्राभिहितः - वत्स अवश्यं यदि गन्तव्यं तदेष कर्कटोऽपि सहायः । तदेनं गृहीत्वा गच्छ ।
सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्यां तं संगृह्य कर्पूरपुटिकामध्ये निधाय पात्रमध्ये संक्षिप्य शीघ्रं प्रस्थितः ।
अथ गच्छन्ग्रीष्मोष्मणा संतप्तः कंचिन्मार्गस्थं वृक्षमासाद्य तत्रैव प्रसुप्तः ।
अत्रान्तरे वृक्षकोटरान्निर्गत्य सर्पस्तत्समीपमागतः । सोपि कर्पूरसुगन्धसहजप्रियत्वात्तं परित्यज्य वस्त्रं विदार्याभ्यन्तरगतां कर्पूरपुटिकामतिलौल्यादभक्षयत् ।
सोऽपि कर्कटस्तत्रैव स्थितः सन्सर्पप्राणानपाहरन् ।
ब्राह्मणोपि यावत्प्रबुद्धः पश्यति तावत्समीपे कृष्णसर्पो निजपार्श्वे कर्पूरपुटिकोपरि मृतस्तिष्ठति । तं दृष्ट्वा व्यचिन्तयत् कर्कटेनाऽयं हतः । इति प्रसन्नो भूत्वाऽब्रवीन्- भोः सत्यमभिहितं मम मात्रा यत्पुरुषेण कोऽपि सहायः कार्यो नैकाकिना गन्तव्यम् । ततो मया श्रद्धापूरितचेतसा तद्वचनमनुष्ठितम् । तेनाऽहं कर्कटेन सर्पव्यापादनाद्रक्षितः ।

Ref: https://sa.wikisource.org/s/12w

Hits: 470
X

Right Click

No right click