अस्ति कस्मिंश्चिद् वनोद्देशे बहु-बक-सनाथो वट-पादपः। तस्य कोटरे कृष्ण-सर्पः प्रतिवसति स्म। स च बक-बालकान् अजात-पक्षान् अपि सदैव भक्षयन् कालं नयति। अथैको बकस् तेन भक्षितांय् अपत्यानि दृष्ट्वा शिशु-वैराग्यात् सरस्-तीरम् आसाद्य बाष्प-पूरैत-नयनो धो-मुखस् तिष्ठति। तं च तादृक्-चेष्टितम् अवलोक्य कुलीरकः प्रोवाच-माम किम् एवं रुद्यते भवताद्य?

स आह-भद्र किं करोमि? मम मंद-भाग्यस्य बालकाः कोटर-निवासिना सर्पेण भक्षिताः। तद्-दुःख-दुःखितो हं रोदिमि। तत् कथय मे यद्य् अस्ति कश्चिद् उपायस् तद्-विनाशाय।
तद् आकर्ण्य कुलीरकश् चिंतयामास-अयं तावद् अस्मत्-सहज-वैरी। तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येपि बकाः सर्वे संक्षयम् आयांति। उक्तं च-

नवनीत-समां वाणीं कृत्वा चित्तं तु निर्दयम्।
तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा॥

आह च-माम, यद्य् एवं तन् मत्स्य-मांस-खंडानि नकुलस्य बिल-द्वारात् सर्प-कोटरं यावत् प्रक्षिप यथा नकुलस् तन्-मार्गेण गत्वा तं दुष्ट-सर्पं विनाशयति।

अथ तथानुष्ठिते मत्स्य-मांसानुसारिणा नकुलेन तं कृष्ण-सर्पं निहत्य तेपि तद्-वृक्षाश्रयाः सर्वे बकाश् च शनैः शनैर् भक्षिताः। अतो वयं ब्रूमः-उपायं चिंतयेद् इति।

Ref:https://sa.wikisource.org/s/12w

Hits: 487
X

Right Click

No right click