अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद् ब्राह्मणः ।
अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः ।
तस्य सेवकास्त्रयः काको व्याघ्रो जम्बुकश्च ।
अथ तैर्भ्रमद्भिः सार्थभ्रष्टः कश्चिद् उष्ट्रो दृष्टः ।
पृष्टश्च्कुतो भवान् आगतः सार्थाद् भ्रष्टः स चात्मवृत्तान्तम् अकथयत् ।
ततस्तैर्नीत्वा सिंहायासौ समर्पितः ।
तेन चाभयवाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः ।
अथ कदाचित् सिंहस्य शरीरवैकल्याद् भूरिवृष्टिकारणाच् चाहारम् अलभमानास्ते व्यग्रा बभूवुः ।
ततस्तैरालोचितम् । चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् ।
किम् अनेन कण्टकभुजास्माकम् व्याघ्र उवाच्स्वामिनाभयवाचं दत्त्वानुगृहीतोयं, तत् कथम् एवं सम्भवति काको ब्रूते इह समये परिक्षीणः स्वामी पापम् अपि करिष्यति ।
यतः
त्यजेत् क्षुधार्ता महिला स्वपुत्रं खादेत् क्षुधार्ता भुजगी स्वमण्डम् ।
बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ॥
अन्यच्च मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ।
लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित् ॥
इति सञ्चिन्त्य सर्वे सिंहान्तिकं जग्मुः ।
सिंहेनोक्तमाहारार्थं किञ्चित् प्राप्तम् तैरुक्तम्देव !
यत्नाद् अपि प्राप्तं किञ्चित् सिंहेनोक्तंकोधुना जीवनोपायः काको वदतिदेव ! स्वाधीनाहारपरित्यागात् सर्वनाशोयम् उपस्थितः सिंहेनोक्तम्त्राहारः कः स्वाधीनः काकः कर्णे कथयतिचित्रकर्ण इति ।
सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति ।
अब्रवीच् चभयवाचं दत्त्वा धृतोयम् अस्माभिः ।
तत् कथम् एवं सम्भवति तथा हि
न भूतदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् ।
यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्व् अभयप्रदानम् ॥
अन्यच्च सर्वकामसमृद्धस्य अश्वमेधस्य यत् फलम् ।
तत्फलं लभते सम्यग् रक्षिते शरणागते ॥
काको ब्रूतेनासौ स्वामिना व्यापादयितव्यः ।
किन्त्व् अस्माभिरेव तथा कर्तव्यं, यथासौ स्वदेहदानम् अङ्गीकरोति ।
सिंहस्तच् छ्रुत्वा तूष्णीं स्थितः ।
ततोसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः ।
अथ काकेनोक्तंदेव ! यत्नाद् अप्याहारो न प्राप्तः । अनेकोपवासक्लिष्टश्च स्वामी । तद् इदानीं मदीयमांसम् उपभुज्यताम् । यतः
स्वामिमूला भवन्त्य् एव सर्वाः प्रकृतयः खलु ।
समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥
सिंहेनोक्तंभद्र ! वरं प्राणपरित्यागो, न पुनरीदृशे कर्मणि प्रवृत्तिः ।
जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तंमैवम् ।
अथ व्याघ्रेणोक्तंमद्देहेन जीवतु स्वामी । सिंहेनोक्तंन कदाचिद् एवम् उचितम् ।
अथ चित्रकर्णोपि जातविश्वासस्तथैवात्मदेहदानम् आह्ततस्तद्वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः ।
सर्वैर्भक्षितश्च ।
Ref:https://sa.wikisource.org/s/1c4
Hits: 593