अस्ति वाराणस्यां कर्पूरपटको नाम रजकः ।
स रात्रौ गाढनिद्रायां प्रसुप्तः ।
तद्अनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः ।
तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति ।
कुक्कुरश्चोपविष्टोस्ति ।

अथ गर्दभः श्वानम् आह्सखे !
भवतस्तावद् अयं व्यापारः ।
तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ।
कुक्कुरो ब्रूतेभद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या ।
त्वम् एव किं न जानासि यथा तस्याहर्निशं गृहरक्षां करोमि ।
यतोयं चिरान् निर्वृतो ममोपयोगं न जानाति ।
तेनाधुनापि ममाहारदाने मन्दादरः ।
यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति ।

ततो गर्दभः सकोपम् आहरे दुष्टमते !
पापीयांस्त्वं यद् विपत्तौ स्वामिकार्ये उपेक्षां करोषि ।
भवतु तावत् । यथा स्वामी जागरिष्यति, तन्मया कर्तव्यम् ।
इत्य् उक्त्वातीव चीत्कारशब्दं कृतवान् ।

ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपाद् उत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वम् अगमत् । 

Ref:https://sa.wikisource.org/s/1c4

Hits: 786
X

Right Click

No right click