अस्त्य् उज्जयिन्यां माधवो नाम विप्रः ।
तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता ।
अथ ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुम् आह्वानम् आगतम् ।
तच् छ्रुत्वा ब्राह्मणोपि सहजदारिद्र्याद् अचिन्तयत्यदि सत्वरं न गच्छामि, तदान्या कश्चिच् छ्रुत्वा श्राद्धं ग्रहीष्यति । यतः
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्रसम् ॥
किन्तु बालाकस्यात्र रक्षको नास्ति ।
तत् किं करोमि यातु, चिरकालपालितम् इमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां व्यवस्थाप्य गच्छामि ।
तथा कृत्वा गतः ।
ततस्तेन नकुलेन बालकसमीपम् आगच्छन् कृष्णसर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश्च ।
>ततोसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्तविलिप्तमुखपदः सत्वरम् उपगम्य तच्चरणयोर्लुलोठ ।
ततः स विप्रस्तथाविधं दृष्ट्वा मम बालकोनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् ।
अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस्तावद् बालकः सुस्थः स्वपिति सर्पश्च व्यापादितस्तिष्ठति ।
ततस्तम् उपकारकं नकुलं निरीक्ष्य, भावितचेताः स ब्राह्मणः परं विषादम् अगमत् ।
अतोहं ब्रवीमियोर्थतत्त्वम् अविज्ञाय इत्य् आदि । अपरं च्
कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा ।
षड्वर्गम् उत्सृजेद् एनं तस्मिंस्त्यक्ते सुखी नृपः

Ref:https://sa.wikisource.org/s/1c4

Hits: 436
X

Right Click

No right click