अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः ।
स च सर्वदा पशूनां वधं कुर्वन्न् आस्ते ।
ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तःमृगेन्द्र !
किम् अर्थम् एकदा बहुपशुघातः क्रियते ।
यदि प्रसादो भवति तदा वयम् एव भवद्आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः ।
ततः सिंहेनोक्तम्यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत् ।
ततःप्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयन्न् आस्ते ।
अथ कदाचिद् वृद्धशशकस्य वारः समायातः ।
सोचिन्तयत् त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया ।
पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ॥
तन्मन्दं मन्दं गच्छामि ।
ततः सिंहोपि क्षुधापीडितः कोपात् तम् उवाच्कुतस्त्वं विलम्ब्य समागतोसि । शशकोब्रवीत्देव !
नाहम् अपराधी ।
आगच्छन् पथि सिंहान्तरेण बलाद् धृतः ।
तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतोसिम् ।
सिंहः सकोपम् आह्सत्वरं गत्वा दुरात्मानं दर्शय ।
क्व स दुरात्मा तिष्ठति ।
ततः शशकस्तं गृहीत्वा गभीरकूपं दर्शयितुं गतः ।
तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूपजले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् ।
ततोसौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः ।

Ref:https://sa.wikisource.org/s/1c4

Hits: 508
X

Right Click

No right click