अस्त्य् उज्जयिनीवर्त्मप्रान्तरे प्लक्षतरुः ।
तत्र हंसकाकौ निवसतः ।
कदाचित् ग्रीष्मसमये परिश्रान्तः कश्चित् पथिकस्तत्र तरुतले धनुष्काण्डं संनिधाय सुप्तः ।
तत्र क्षणान्तरे तन्मुखाद् वृक्षच्छायापगता ।
ततः सूर्यतेजसा तन्मुखं व्याप्तम् अवलोक्य, तद्वृक्षस्थितेन पुण्यशीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता ।
ततो निर्भरनिद्राशुखिना पथिभ्रमणपरिश्रान्तेन पान्थेन मुखव्यादानं कृतम् ।
अथ परसुखम् असहिष्णुः स्वभावदौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः ।
ततो यावद् असौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत् तेनावलोकितो हंसः काण्डेन हतो व्यापादितः ।
अतोहं ब्रवीमिन स्थातव्यम् इति ।
Ref:https://sa.wikisource.org/s/1c4
Hits: 376