नारायण पण्डित - गणितकौमुदी 
अङ्क-पाशम् -५

(१) अब्तिमाङ्कतुल्यस्तानाभावे सति पङ्क्तौ यावन्तोऽङ्कास्तेषां युतिरेव तत्पुर: स्थाप्या।
उत्क्रमतोऽन्तिमतुल्य-
स्थानयुतिं * तत्पुरस्ताच्च।
अन्तिमतुल्यस्थाना-
भावे तत्संयुतिं पुरस्ताच्च।।१४।।

एवं सैकसमास-
स्थानासामासिकीयं स्यात् ।

उदाहरणम् ।
अत्र समास: ७ अन्तिमाङ्क: ३।
सैकसमासस्थानमिता यथोक्तकरणेन जाता सामासिकी पङ्क्ति: १।१।२।४।७।१३।२४।४४

----
* तत् सर्वसंयुतिं पुरत: इति पाठोऽनुमीयते।।

(१) प्रथमं एकाङ्कौ १।१ अनयोर्योग:= २+१+१=४

अयं तत्पुरोऽङ्क: । पुनरुक्तक्रमतोऽन्तिमाङ्कस्थानपर्यंन्तमङ्कानां युति: = ४+२+१=७

एवमग्रेऽपि सैकसमासस्थानपर्यन्तमङ्का: १।१।२।४।७।१३।२४।४४ इयं सामासिकी पङ्क्ति: ।

Hits: 377
X

Right Click

No right click