येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते । । १८.१ । ।
वक्रपक्षो व्यस्तपुच्छो भवति । पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङुदूहति । एवं इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते । । १८.२ । ।
पुरुषस्य षोडशभिर्विंशं शतं सारत्निप्रादेशः सप्तविधः संपद्यते । तासां चत्वारिंशदात्मनि तिस्रः शिरसि पञ्चदश पुच्छ एकत्रिंशद्दक्षिणे पक्षे तथोत्तरे । । १८.३ । ।
अध्यर्धपुरुषस्तिर्यग्द्वावायामत इति दीर्घं चतुरश्रं विहृत्य श्रोण्यंसेभ्यो द्वे द्वे षोडस्यौ निरस्येत् । चत्वारिंशत्परिशिष्यन्ते । स आत्मा । । १८.४ । ।
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणोत्तरयोर्निपातयेथ् । । १८.५क । ।
तिस्रः परिशिष्यन्ते । तच्छिरः । । १८.५ख । ।
पुरुषस्तिर्यग्द्वावायामतः षोडशभागश्च दक्षिणः पक्षः । तथोत्तरः । । १८.६ । ।
पक्षाग्रेपक्षाग्रे पुरुषचतुर्थेन चत्वारि चतुरश्राणि कृत्वा तान्यक्ष्णया व्यवलिख्यार्धानि निरस्येत् । एकत्रिंशत्परिशिष्यन्ते । । १८.७ । ।
पक्षाग्रं उत्सृज्य मध्ये पक्षस्य प्राचीं लेखां आलिखेथ् । । १८.८क । ।
पक्षाप्यये पुरुषं नियम्य लेखायां पुरुषान्ते नितोदन्तुकुर्यात् । नितोदात्प्राचीनं पुरुषान्ते नितोदं नितोदयोर्नानान्तावालिखेत् । तत्पक्षिनमनं । एतेनोत्तरः पक्षो व्याख्यातः । । १८.८ख । ।
Ref: https://sa.wikisource.org/s/809
Hits: 393