येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते । । १५.१ । ।
वक्रपक्षो व्यस्तपुच्छो भवति । । १५.२क । ।
पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङ्ङुदूहति । एवं इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते । । १५.२ख । ।
यावानग्निः सारत्निप्रादेशः सप्तविधः संपद्यते । प्रादेशं चतुर्थं आत्मनश्चतुर्भागीयाश्चाष्टौ । तासां तिस्रः शिर इतरत्पक्षयोर्विभजेथ् । । १५.३ । ।
पञ्चारत्निः पुरुषः । चतुररत्निः व्यायामः । चतुर्विंशत्यङ्गुलयोऽरत्निः । तदर्धं प्रादेश इति क्ळ्प्तिः । । १५.४ । ।
अर्धदशमा अरत्नयोऽङ्गुलयश्च चतुर्भागोनाः पक्षायामः । । १५.५ । ।
द्विपुरुषां रज्जुं उभयतःपाशां करोति । मध्ये लक्षणं । पक्षस्यापरयोः कोट्योरन्तौ नियम्य लक्षणेन प्राचीनं आयच्छेदेवं पुरस्तात् । स निर्णामः । । १५.६ । ।
एतेनोत्तरः पक्षो व्याख्यातः । । १५.७ । ।
आत्मा द्विपुरुषायामोऽध्यर्धपुरुषव्यासः । । १५.८ । ।
पुच्छेऽर्धपुरुषव्यासं पुरुषं प्रतीचीनं आयच्छेत् । तस्य दक्षिणतोऽन्यं उत्तरतश्च । । १५.९क । ।
तावक्ष्णया व्यवलिखेत् । यथार्धपुरुषोऽप्यये स्याथ् । । १५.९ख । ।
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणयोर्निपातयेथ् । । १५.१० । ।

Ref: https://sa.wikisource.org/s/809

Hits: 367
X

Right Click

No right click