एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेथ् । । १२.१क । ।
पादेष्टकाश्च व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १२.१ख । ।
एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेनेति यो युज्येत । सर्वेषां यथा श्रुतिसङ्ख्या तथोर्ध्वप्रमाणं । । १२.२ । ।
काम्या गुणविकाराः गुणशास्त्रत्वाथ् । । १२.३ । ।
प्रौगचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते । । १२.४ । ।
यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणीं प्रत्यालिखेत् । सा नित्या प्रौगं । । १२.५ । ।
कराणानि चयनं इत्येकविधोक्तं । । १२.६क । ।
प्रौगा इष्टकाः कारयेथ् । । १२.६ख । ।
उभययः प्रौगं चिन्वीत यः कामयेत प्रजातान्भ्रातृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते । । १२.७ । ।
यथा विमुखे शकटे । । १२.८ । ।
तावदेव तीर्घं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् । सा नित्योभभयतः प्रौगं । । १२.९ । ।
प्रौगचितोक्तीः (-क्तं) । उभयतः प्रौगा इष्टकाः कारयेथ् । । १२.१० । ।
रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते । । १२.११ । ।
यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा तस्मिंश्चतुरश्रं अवदध्याद्यावत्सम्भवेथ् । । १२.१२ । ।
Ref: https://sa.wikisource.org/s/809
Hits: 391