अथापरः १

पुरुषस्य षोडशीभिर्विं शशतं सारत्निप्रादेशः सप्तविधः सं पद्यते २

तासां पञ्च षोडशीरपोद्धत्य शेषाः परिमण्डलं करोति । तदु त्तरेण द्रोणचिता व्याख्यातम् ३

अथ ताः पञ्चषोडश्यस्ताभि-रवान्तरदिक्षु पादानु न्नयेच्छिरः पुरस्तात् । तासां परिकर्षणं व्याख्यातम् ४

प्रधीनां सप्तधा विभागः प्रधिमध्यमाः प्रक्रमव्यासा भवन्ति ५

यदतिरिक्तं सं पद्यतेतच्चतुरश्राणामध्यर्धा भिर्यो युज्येत ६

अपरस्मिन्प्रस्तारे पादानां शिरोवद्विभागः शिरसः पादवत् ७

व्यत्यासं चिनु याद्यावतः प्रस्तारांश्चिकीर्षेत् ८

कत्न र्मस्यान्तेतनु पुरीषमुपदध्यान्मध्येबहुलम् । एतदेव द्रोणेविपरीतम् ९

अथ हैक एकविधप्रभृतीन्प्रौगादीन् ब्रुवते १०

समचतुरश्रानेक आचार्याः । तस्य करण्या द्वादशेनेष्टकाः कारा-येत्तासामध्ध्याः पाद्याश्च ११

अथाश्वमेधिकस्याग्नेः पुरुषाभ्यासोना-रत्निप्रादेशानां १२

प्राकृतो वा त्रिगुणः । त्रिस्तावोऽग्निर्भवतीत्येक-विं शोऽग्निर्भवतीत्यु भयं ब्राह्मणमु भयं ब्राह्मणम् १३

२१

Hits: 424
X

Right Click

No right click