कत्न र्मचितं चिन्वीत यः कामयेत ब्रह्मलोकमभिजयेयमिति । विज्ञायते १

द्वयाः खलु कत्न र्मा भवन्ति वक्राङ्गाश्च परिमण्डलाश्च । अविशेषात्ते मन्यामहेऽन्यतरस्याकृतिरिति २

अथाग्निं विमिमीते। चतुरश्र आत्मा भवति । तस्य दश प्रक्रमाः पाश्श्वमानी भवति । तस्य द्वाभ्यां द्वाभ्यां प्रक्रमाभ्यां स्रक्तीनामपच्छेदः ३

पूर्वस्मिन्ननीके प्रक्रमप्रमाणानि चत्वारि चतुरश्राणि कृत्वा तेषां येअन्त्येतेअक्ष्णयापच्छिन्द्यात् । एवं दक्षिणत एवं पश्चादेवमु त्तरतः । स आत्मा ४

शिरः पञ्चपदायाम-मर्धपुरुषव्यासम् । तस्यां सौ प्रक्रमेण प्रक्रमेणापच्छिन्द्यात् ५

स्रक्त्य-पच्छे देपादानुन्नयेत् । तस्य द्विपदाक्ष्णया तिरश्ची तद्द्विगुणायाममनूची । तस्य द्विपदाक्ष्णया पूर्वमं समपच्छिन्द्यात् । एतेनेतरेषां पादानामप-च्छेदा व्याख्याताः । अपरयोः पादयोरपरावं सावपच्छिन्द्यात् ६

एवं सारत्निप्रादेशः सप्तविधः सं पद्यते ७

तस्येष्टकाः कारयेत्पु रुषस्य चतुथ्थ्यस्तासामध्ध्याः पाद्याश्च ८

अध्यर्धपाद्याश्चतुर्भिः परिगृह्णीयात्प्रक्रमेण द्वाभ्यां पदाभ्यां पदसविशेषेणेति ९

तेद्वे यथा दीर्घसंश्लिष्टेस्यातां तथै कां कारयेत् १०

द्विपदाक्ष्णयार्धेन समचतुरश्रामेकां ११

उपधाने शिरसोऽग्रेचतुरश्रामु पदध्यात् । हं समुख्याववस्तात् १२ पञ्च पञ्च चतुरश्रा द्वे द्वे पादेष्टके इति पादेषूपदध्यात् १३

यद्यदपच्छिन्नं तस्मि-न्नर्धेष्टका उपदध्यात् १४

शेषमग्निं चतुर्भा गीयाभिः प्रच्छादयेत् । अर्धेष्टकाभिः संख्यां पूरयेत् १५

अपरस्मिन्प्रस्तारेशिरसोऽग्रेहं समु -खीमु पदध्यात्पादेष्टके अभितः १६

तयोरवस्तादभितो द्वे द्वे अध्यर्धपाद्ये विषूची १७

तयोरवस्तादभितश्छे दसं हितेद्वे पादेष्टके १८

द्वे द्वे द्विपदे तिस्रस्तिस्रोऽर्धेष्टका इति पादेषूपदध्यात् १९

यद्यदपच्छिन्नं तस्मिन्न-र्धेष्टकाः पादेष्टकश्चोपदध्यात् २०

शेषमग्निं चतु र्भा गीयाभिः प्रच्छादयेत् । अर्धेष्टकाभिः सं ख्यां पूरयेत् २१

२०

Hits: 425
X

Right Click

No right click