श्मशानचितं चिन्वीतेति विज्ञायते १

सर्वमग्निं चतुरश्रान्पञ्चदश भागा-न्कृत्वा तेषामाख्यातमु पधानम् २

त्रिभिर्भागैर्भागार्धव्यासं दीर्घचतु रश्रं विहृत्य पूर्वस्याः करण्या मध्याच्छ्रोणी प्रत्यालिख्यान्तावुद्धरेत् । तस्य दशधा विभागः ३

तानि विंशतिः सर्वोऽग्निः संपद्यते ४

अपरस्मि-न्प्रस्तारेप्रौगमध्येऽनूचीनं विभजेत् । तस्य षड्धा विभागः । तेद्वे पश्श्वयोरुपदध्यात् ५

भागतृतीयायामश्चतुर्थव्यासाः कारयेत् । तासाम-ध्ध्या स्तिर्यग्भेदाः ६

ता अन्तयोरुपधाय शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेत् । अर्धेष्टकाभिः संख्यां पूरयेत् ७

ऊध्ध्वप्रमाणमग्नेः पञ्चमेन वर्धयेत् ८

तत्सर्वं त्रेधा विभज्य द्वयोर्भा गयोश्चतुर्थेन वा नवमेन वा चतुर्दशेन वेष्टकाः कारयेत् ९

ताभिश्चतस्रो वा नव वा चतुर्दश वा चितिरुपधाय शेषमवाञ्चमक्ष्णयापच्छिन्द्यात् । अर्धमुद्धरेत् १०

तस्य नित्यो विभागो यथायोगमिष्टकानां ह्रासवृद्धि ११

१९

Hits: 404
X

Right Click

No right click