द्रोणचितं चिन्वीतेति विज्ञायते १

द्वयानि तु खलु द्रोणानि भवन्ति चतुरश्राणि च परिमण्डलानि च । अविशेषात्तेमन्यामहेऽन्य-तरस्याकृतिरिति २

अथाग्निं विमिमीते। चतुरश्र आत्मा भवति । तस्य त्रयः पुरुषास्त्रिभागोनाः पश्श्वमानी ३

पश्चात्त् सरुर्भवति । तस्यार्धपुरुषो दशाङ्गुलानि च प्राची । त्रिभागोनः पुरुष उदीचीति ४

एवं सारत्निप्रादेशः सप्तविधः संपद्यते ५

अथेष्टकानां विकाराः । पुरुषस्य षष्ठ्यस्ता एवै कतोऽध्यर्धाः । तासामध्ध्या स्तिर्यग्भेदाः पुरुषस्य चतुथ्थ्यइति ६

तासां त्सरुश्रोण्यन्तरालयोः षट् षष्टीरुपधाय शेषमग्निं बृहतीभिः प्रच्छादयेत् । अर्धेष्टकाभिः संख्यां पूरयेत् ७

अपरस्मि-न्प्रस्तारेदक्षिणेंऽसेऽध्यर्धा मु दीचीमुपदध्यात् । तथोत्तरे ८

पूर्वस्मिन्न-नीके षड् भागीया उपदध्यात् ९

दक्षिणोत्तरयोश्चतु र्भा गीयाः १०

त्सरोः पु रस्तात्पाश्श्वयोद्ध् र्वेचतु र्भा गीयेउपदध्यात् । तयोरवस्तादभितो द्वे द्वे अध्यर्धेविषूची । तयोरवस्तान्मध्यदेशेद्वे षष्ठ्यौ प्राच्यौ ११

शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेत् । अर्धेष्टकाभिः संख्यां पूरयेत् १२

१७

Hits: 423
X

Right Click

No right click