रथचक्रचितं चिन्वीतेति विज्ञायते १

द्वयानि तु खलु रथचक्राणि भवन्ति साराणि च प्रधियु क्तानि च । अविशेषात्तेमन्यामहेऽन्यतर-स्याकृतिरिति २

अथाग्निं विमिमीते। यावानग्निः सारत्निप्रादेश-स्तावतीं भूमिं परिमण्डलां कृत्वा तस्मिन्यावत्सं भवेत्तावत्समचतुरश्रं कृत्वा तस्य करण्या द्वादशेनेष्टकाः कारयेत् ३

तासां षट् प्रधावु पधाय शेषमष्टधा विभजेत् ४

अपरं प्रस्तारं तथोपदध्याद्यथा प्रध्यनीकेषु स्र-क्तयो भवन्ति ५

अथापरः ६

पुरुषार्धा त्पञ्चदशे नेष्टकाः समचतु रश्राः कारयेन्मानार्थाः ७

तासां द्वे शतेपञ्चविं शतिश्च सारत्निप्रादेशः सप्तविधः संपद्यते ८

तास्वन्याश्चतुःषष्टिमावपेत् । ताभिः समचतुरश्रं करोति । तस्य षोडशेष्टका पाश्श्वमानी भवति । त्रयस्त्रिंशदतिशिष्यन्ते। ताभिरन्तान्सर्वशः परिचिनु यात् ९

नाभिः षोडश मध्यमाः । चतुःष-ष्टिरराश्चतुःषष्टिर्वेदिः । नेमिः शेषाः १०

नाभिमन्ततः परिलिखेत् । नेमिमन्ततश्चान्तरतश्च परिलिख्य । नेमिनाभ्योरन्तरालं द्वात्रिंशद्धा वि-भज्य विपर्या संभागानुद्धरेत् । एवमावाप उद्धतो भवति ११

नेमिं चतुःषष्टिं कृत्वा व्यवलिख्य मध्येपरिकृषेत् । ता अष्टाविं शतिशतं भवन्ति १२

अरांश्चतुर्धा चतुर्धा नाभिमष्टधा विभजेत् १३

एष प्रथमः प्रस्तारः १४

अपरस्मिन्प्रस्तारेनाभिमन्ततश्चतु र्थवेलायां परिकृषेत् । नेमिमन्तरतः १५

नेमिमन्तरतश्चतुःषष्टिं कृत्वा व्यवलिखेत् १६

अराणां पञ्चधा विभाग आपरिकर्षणयोः १७

नेम्यामन्तरालेषु द्वे द्वे नाभ्यामन्त-रालेष्वेक कां १८

यच्छे षं नाभेस्तदष्टधा विभजेत् १९

स एष षोडशक-रणः सारो रथचक्रचित् २०

१६

Hits: 398
X

Right Click

No right click