प्रौगचितं चिन्वीतेति १

यावानग्निः सारत्निप्रादेशस्तावत्प्रौगं कृत्वा तस्यापरस्याः करण्या द्वादशेनेष्टकास्तदर्धव्यासाः कारयेत् । तासाम-ध्ध्याः पाद्याश्च २

तासां द्वे अर्धेष्टके बाह्यसविशेषेचुबुक उपदध्या-दध्ध्या श्चान्तयोः ३

शेषमग्निं बृहतीभिः प्रच्छादयेदर्धेष्टकाभिः सं ख्यां पूरयेत् ४

अपरस्मिन्प्रस्तारेऽपरस्मिन्ननीके सप्तचत्वारिं शत्पादेष्टका व्य-तिषक्ता उपदध्यात् ५

चुबुक एकां शूलपाद्याम् ६

दीर्घेचेतरेचतस्रः स्वयमातृण्णावकाश उपदध्यादध्ध्याश्चान्तयोः ७

शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेदर्धेष्टकाभिः संख्यां पूरयेत् ८

१४

Hits: 383
X

Right Click

No right click