कङ्कचित एतेनात्मा पु च्छं च व्याख्यातम् १
शिरसि पञ्चोपदध्यात् । तस्याकृतिव्व्या ख्यात २
सप्तपञ्चाशद्दक्षिणेपक्ष उपदध्यात् । तथोत्तरे ३
व्यायामेन सप्रादेशेन पक्षयोरपनामः । पञ्चमभागीयाध्ध्याभिः षट् षट् पत्राणि कुर्यात् । अध्यर्धा वशिष्यते ४
तया पुच्छस्यावस्तात् पादावरत्निमात्रावरत्न्यन्तरालौ प्रादेशव्यासौ भवतः । तयोरवस्ताद-भितो द्वौद्वावष्टमभागौ प्राग्भेदावु पदध्यात् ५
एवं सारत्निप्रादेशः सप्त-विधः सं पद्यते ६
अथेष्टकानां विकाराः । पञ्चमभागीयाः सावयवाः । पादेष्टकां चतुर्भिः परिगृह्णीयादर्धप्रादेशेनाध्यर्धप्रादेशेन प्रादेशेन प्रा-देशसविशेषेनेति । अध्यर्धेष्टकां चतुर्भिः परिगृह्णीयादर्धव्यायामेन द्वा-भ्यामरत्निभ्यामरत्निसविशेषेनेति । ताः षट् ७
तासां चतुरश्रपाद्याः साष्टमभागाः पादयोरुपधाय शेषं यथायोगं यथासंख्यं यथाधर्मं चोपदध्यात् ८
१२
Hits: 415