अथापरः १

पुरुषस्य पञ्चमीभिः शतमशीतिः सप्तार्धं च सारत्निप्रादेशः सप्तविधः सं पद्यते २

तासां पञ्चाशद् द्वे चात्मन्यर्धचतु थ्थ्यः शिरसि । पञ्चदश पुच्छे । अष्टपञ्चाशत्साध्ध्या दक्षिणेपक्ष उपदध्यात् । तथोत्तरे ३

अर्धव्यायामेनस्रक्तीनामपच्छेदः । संनतं पुच्छं । पक्षयोस्त्रिभि-स्त्रिभिररत्निभिरपनामः । अध्यध्ध्याभिः षट् षट् पत्राणि कुर्यात् । आकृतिः शिरसो नित्या ४

अथेष्टकानां विकाराः ५

पुरुषस्य पञ्चम्यस्ता एवैकतोऽध्यर्धाः । ता एवै कतः सपादाः । पञ्चमभागीयायाः पाद्याः साध्ध्याः । तथाध्यर्धा याः । तयोश्चाष्टमभागौ तथा श्लेषयेद्यथा तिस्रः स्रक्तयो भवन्ति । पञ्चमभागीयायाश्चाष्टम्यः । तानि दश ६

आत्मनि पञ्चमभागीयाः साध्ध्या उपदध्यात् । तथा पुच्छे ७

पक्षयोश्चाध्यर्धाः साध्ध्याः ८

शिरसि याः सं भवन्ति ९

अपरस्मिन्प्रस्तारेपूर्वयोः पक्षाप्य-ययोरेक कामु भयीमु पदध्यात् । एक कामपरयोः । द्वे द्वे शिरसः पाश्श्वयोः १०

पुच्छस्यावस्तादध्यर्धाः प्राचीर्यथावकाशम् । पाश्श्वयोः पाद्याः साष्टमभागाः ११

पक्षयोश्चाध्यर्धाः सावयवाः १२

शेषं यथायोगं यथासंख्यं यथाधर्मं चोपदध्यात् १३

११

Hits: 175
X

Right Click

No right click