अथ वै भवति श्येनचितं चिन्वीत सु वर्गकाम इति १

आकृतिद्वैविध्यम् । चतुराश्रात्मा श्येनाकृतिश्च २

विज्ञायतेउभयं ब्राह्मणम् ३

पञ्च द-क्षिणायां श्रोण्यामु पदधाति पञ्चोत्तरस्याम् । बस्तो वय इति दक्षिणेंऽस उपदधाति । वृष्णिर्वय इत्यु त्तरे। व्याघ्रो वय इति दक्षिणेपक्ष उप-दधाति । सिं हो वय इत्यु त्तरेपु रुषो वय इति मध्य इति च ४

अथापरं वयसां वा एष प्रतिमया चीयतेयदग्निरिति । उत्पततां छाययेत्यर्थः ५

समचतुरश्राभिरग्निं चिनु तेदै व्यस्य च मानुषस्य च व्यावृत्त्या इति मै त्रायणीयब्राह्मणं भवति ६

तस्येष्टकाः कारयेत् पुरुषस्य चतुर्थेन पञ्च-मेन षष्ठे न दशमेनेति ७

अथाग्निं विमिमीते ८

यावान्पु रुष ऊध्ध्वबाहुस्तावदन्तरालेवेणोश्छिद्रेकरोति । मध्येतृतीयं । यदमु त्र स्पन्द्यया करोति तदिह वेणु ना करोति ९

तस्यात्मा समचतुरश्रश्चत्वारः पुरुषाः । पक्षः समचतुरश्रः पुरुषः । स तु दक्षिणतोऽरत्निना द्राघीयान् । एतेनोत्तरः पक्षो व्याख्यातः । पुच्छः समचतुरश्रः पुरुषः । तमवस्ता-त्प्रादेशेन वर्धयेत् । एवं सारत्नि प्रादेशा सप्तविधः सं प्रद्यतः १०

उपधाने पक्षाग्रादु त्तरतः पुरुषतृतीयवेलायां चतस्रः पञ्चम्यस्तासामभितो द्वे द्वे पादेष्टके ततोऽष्टौ चतुथ्थ्यः । पक्षशेषं षड् भागीयाभिः प्रच्छादयेत् । एतेनोत्तरः पक्षो व्याख्यातः ११

पूर्वा परयोः पुच्छपाश्श्वयोश्चतुर्भा गीया उपदध्यात् । दक्षिणोत्तरयोः पादेष्टकाः । शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् १२

एष द्विशतः प्रस्तारः १३

अपरस्मिन्प्रस्तारेपक्षाग्रा-दु त्तरतोऽर्धव्यायामवेलायां तिस्रस्तिस्रः षष्ठ्यो द्वे द्वे द्विपदेइति विपर्या -समुपदध्यात् । तथोत्तरे १४

दक्षिणस्यां श्रोण्यां नव षष्ठ्यश्चतु रश्रकृताः । तथोत्तरस्याम् १५

नव नव षष्ठ्यो द्वे द्वे दिपदेइति दक्षिणादं सादु -त्तरादं साद्विपर्या समुपदध्यात् १६

शेषमग्निं पञ्चमभागीयाभिः प्रच्छादये त् १७

एष द्विशतः प्रस्तारो व्यत्यासं चिनु याद्यावतः प्रस्तारां श्चिकीर्षेत् १८

Hits: 194
X

Right Click

No right click