न खण्डामु पदध्यात् । न भिन्नामु पदध्यात् । न कृष्णामु पदध्यात् । न जीर्णा मु पदध्यात् । न लक्ष्मणामु पदध्यात् । न स्वयमातृण्णां स्वयं चितावु पदध्यात् १

ऊध्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेत् । अर्धेन नाकसदां पञ्चचोडानां च २

यच्छोषपाकाभ्यां प्रतिह्रसेत पु रीषेण तत्सं पूरयेत् पु रीषस्यानियतपरिमाणत्वात् ३

व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते ४

चतुरश्रेत्येके षां । परिमण्डले-त्येके षाम् ५

चतुरश्रं सप्तधा विभज्य तिरश्चीं त्रेधा विभजेत् । अपर-स्मिन्प्रस्तार उदीचीरुपदधाति ६

समचतुरश्राश्चेदु पदध्याद्व्यायामषष्ठे - नेष्टकाः कारयेच्चतु र्थेन तृतीयेनेति । तासां नव प्रथमा द्वादश द्वितीया इति पूर्वस्मिन्प्रस्तार उपदधाति । पञ्च तृतीयाः षोडश प्रथमा इत्यपर-स्मिन् ७

परिमण्डलायां यावत्सं भवेत्तावत्समचतु रश्रं कृत्वा तन्नवधा विभजेत् प्रधीं स्त्रिधा त्रिधेति । अपरं प्रस्तारं तथोपदध्याद्यथा प्रध्यनी-के षु स्रक्तयो भवन्ति ८

धिष्ण्या एकचितीकाश्चतु रश्राः परिमण्डला वा ९

तेषामाग्नीध्रीयं नवधा विभज्यै कस्याः स्थानेऽश्मानमु पदध्यात् १०

अथ होतु र्धिष्ण्यं नवधा विभज्य पूर्वां स्त्रिभागानेक कं द्वे धा विभजेत् ११

अथेतरान्नवधा नवधा विभज्य मध्यमपूर्वौ द्वौ भागौ समस्येत् १२

अथ मार्जा लीयं त्रेधा विभज्य पूर्वा परौ भागौ पञ्चधा विभजेत् १३

उख्यभस्मना सं सृज्येष्टकाः कारयेदिति १४ सं वत्सरभृत एवै तदु पपद्यते न रात्रिभृतः १५

एवमस्य मन्त्रवती चितिक्लृप्तिः १६

छन्दश्चितं त्रिषा-हस्रस्य परस्ताच्चिन्वीत कामविवेकात् तस्य रूपं श्येनाकृतिर्भवतीति १७

Hits: 188
X

Right Click

No right click