पशु धर्मो ह वा अग्निः । यथा ह वै पशोर्दक्षिणेषामस्थ्नां यद्दक्षिणं पाश्श्वं तदुत्तरेषामु त्तरं यदुत्तरेषां दक्षिणं तद्दक्षिणेषामु त्तरं यदवाक् चोध्ध्वं च तत्समानमेवमिष्टकानां रूपाण्यु पदध्यात् १

या दक्षिणावृतो लेखास्ता दक्षिणत उपदध्यात् सव्यावृत उत्तरतः । अजु लेखाः पश्चाच्च पुरस्ताच्च भवन्ति । त्र्यालिखिता मध्ये। अथ या विशयस्था यथा ह वै पशोः पृष्ठवं शो नै वै कस्मिन्पाश्श्वेव्यतिरेकेण वर्ततेनै वापरस्मिन्नेवं तासामु पधानं प्रतीयात् २

अथापि ब्राह्मणं भवति । प्रजापतिर्वा अथर्वाग्निरेव दध्यङ् ङाथर्वणस्तस्येष्टका अस्थानीति ३

तस्माद् बहिस्तन्वं चेच्चिनु यात्तन्वोपप्लवमध्यै रात्मोपप्लवमध्यात् सं दध्यात् ४

प्राञ्चमेनं चिनु त इति विज्ञायते ५

अमृन्मयीभिरनिष्टकाभिर्नसंख्यां पूरयेत् ६

इष्टकचिद्वा अन्योऽग्निः पशु चिदन्य इत्येतस्माद् ब्राह्मणात् ७

पशु र्वा एष यदग्निर्यो निः खलु वा एषा पशोर्विक्रियतेयत्प्राची-नमै ष्टाकाद्यजुः क्रियत इति च ८

लोकबाधीनि द्रव्याण्यवटेषूपदध्यात् ९

मण्डलमृषभं विकर्णी मितीष्टकासुलक्ष्माणि प्रतीयात् १०

इष्टकाम-न्त्रयोरिष्टकाव्यतिरेके लोकं पृणाः सं प्रद्यन्तेपरिमाणाभावात् ११

अती-तानेव वेष्टकागणानत्रोपदध्यात् १२

पञ्च लोकं पृणाः १३

मन्त्रव्यतिरे-केऽक्ताः शक राः सं धिषूपदध्यात् १४

प्राचीरुपदधाति प्रतीचीरुपदधा-तीति गणेषु रीतिवादः १५

प्राचीमु पदधाति प्रतीचीमु पदधातीति कर्तु -र्मु खवादः १६

पुरस्तादन्याः प्रतीचीरुपदधाति पश्चादन्याः प्राचीरित्य-पवर्गः १७

चतुरश्रास्वेवै तदु पपद्यते१८

Hits: 174
X

Right Click

No right click