अर्धा ष्टमाः पुरुषाः प्रथमोऽग्निः । अर्धनवमा द्वितीयः । अर्धदशमास्तृ-तीयः । एवमु त्तरोत्तरो विधाभ्यास एकशतविधात् । तदेतत्सप्तविध-प्रभृत्येकशतविधान्तम् १

अत ऊध्ध्वमेकशतविधानेव प्रत्याददीत । अनग्निकान्वा यज्ञक्रतूनाहरेत् । अन्यत्राश्वमेधात् २

अश्वमेधमप्राप्तं चेदाहरेदत ऊध्ध्वं विधामभ्यस्येन्नेतरदाद्रियेत ३

अतीतं चेदाहरेदाहृत्य कृतान्तादेव प्रत्याददीत ४

कथमु खलु विधामभ्यस्येत् ५

यदन्य-त्प्रकृतेस्तत्पञ्चदश भागान्कृत्वा विधायां विधायां द्वौ द्वौ भागौ समस्येत् । ताभिरर्धाष्टमाभिरग्निं चिनुयात् ६

ऊध्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य चतुर्विं शेनै के समामनन्ति ७

अथ है क एकविधप्रभृतीनपक्षपु च्छां श्चि-न्वते८

तन्नोपपद्यतेपूर्वो त्तरविरोधात् ९

अथ है केषां ब्राह्मणं भवति श्येनचिदग्नीनां पूर्वाततिरिति १०

अथापरेषां न ज्यायां संचित्वा कनी-यां सं चिन्वीतेति ११

अथास्माकं । पक्षी भवति । न ह्यपक्षः पतितु मर्हति । अरत्निना पक्षौ द्राघीयां सौ भवतः । तस्मात्पक्षप्रवयांसि वयांसि । व्याममात्रौ पक्षौ च पुच्छं च भवतीति १२

नापक्षपुच्छः श्येनो विद्यते। न चासप्तविधस्य पक्षपुच्छानि विद्यन्ते। न च सप्त-विधं चित्वै कविधप्रसङ्गः । तस्मात्सप्तविध एव प्रथमोऽग्निः १३

भेदान्वर्जयेत् । अधरोत्तरयोः पाश्श्वसंधानं भेदा इत्यु पदिशन्ति । तद-ग्न्यन्तेषु न विद्यतेन स्रक्तिपाश्श्वयोः १४

साहस्रं चिन्वीत प्रथमं चिन्वान इति १५

पञ्चमायां वा चितौ सं ख्यां पूरयेत् १६

द्विशताश्चेच्चिकी-र्षेत्पञ्चचोडाभिर्ना कसदः समानसंख्यं प्रतीयात् १७

Hits: 211
X

Right Click

No right click