प्राग्वं शः षोडशप्रक्रमायामो द्वादशव्यासोऽपि वा द्वादशप्रक्रमायामो दशव्यासः १

तस्य मध्येद्वादशिको विहारः २

त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची भवति षटि् त्रं शत्प्राची चतुर्विंशतिः पुरस्तात्तिरश्चीति महावेदेर्विज्ञायते। मानयोगस्तस्या व्याख्यातः । आहवनीयात्षट् प्रक्रमान्महावेदिः ३

तत एकस्मिन्सदः । तद्दशकम् । उदक् स-प्तविं शत्यरत्नयः । अष्टादशेत्येके षाम् ४

ततश्चतुर्षु हविर्धा नम् । तद्दशकं द्वादशकं वा मानयोगस्तयोव्व्या ख्यातः ५

यूपावटीयाच्छ-ङ्कोरर्धप्रक्रममवशिष्योत्तरवेदिं विमिमीते। दशपदोत्तरवेदिर्भवतीति सोमेविज्ञायते। मानयोगस्तस्या व्याख्यातः ६

चात्वालः शम्या-मात्रोऽपरिमितो वा ७

अथोपरवाः प्रादेशमुखाः प्रादेशान्तरालाः । अरत्निमात्रं समचतुरश्रं विहृत्यस्रक्तिषु शङ्कत्नन्निहन्यात् । अर्धप्रादेशे-नार्धप्रादेशेनैक कं मण्डलं परिलिखेत् ८

सदसः पूर्वार्धा द्द्विप्रक्रमम-वशिष्य धिष्ण्यानां द्विप्रादेशो विष्कम्भस्तथान्तरालाः ९

आग्नीध्रा-गारस्य पाश्श्वमानी पञ्चारत्निः १०

एतेन मार्जा लीयो व्याख्यातः । तस्योदीचीं द्वारं कुर्वन्ति ११

रथाक्षान्तराला यूपावटा भवन्तीत्येका-दशिन्यां विज्ञायते। तस्या दशानां च रथाक्षाणामेकादशानां च प-दानामष्टाङ्गु लस्य च चतुर्विंशं भागमाददीत । स प्रक्रमः स्यात् । तेन वेदिं विमिमीते १२

अथाश्वमेधेविं शत्याश्च रथाक्षाणामेकविं शत्याश्च पदानामष्टाङ्गु लस्य च चतु र्विं शं भागमाददीत । स प्रक्रमः स्यात् । तेन वेदिं विमिमीते १३

अथ प्राच्येकादशिन्यां यूपार्थं वेदेः पूर्वा र्धा त्प-दार्धव्यासमपच्छिद्य तत्पु रस्तात्प्राञ्चं दध्यात् । नात्राष्टाङ्गु लं विद्यते। न व्यतिषङ्गः १४

यूपावटाः पदविष्कम्भास्त्रिपदपरिणाहानि यूपोपरा-णीति १५

Hits: 230
X

Right Click

No right click