नानाचतुरश्रेसमस्यन्कनीयसः करण्या वर्षी यसो वृध्रमु ल्लिखेत् । वृध्रस्याक्ष्णयारज्जुः समस्तयोः पाश्श्वमानी भवति १

चतुरश्राच्चतुरश्रं निर्जिहीर्षन्यावन्निर्जिहीर्षेत्तस्य करण्या वर्षी यसो वृध्रमु ल्लिखेत् । वृध्रस्य पाश्श्वमानीमक्ष्णयेतरत्पाश्श्वमुपसंहरेत् । सा यत्र निपतेत्तदप-च्छिन्द्यात् । छिन्नया निरस्तम् २

समचतुरश्रं दीर्घचतुरश्रं चिकीर्षं -स्तदक्ष्णयापच्छिद्य भागं द्वे धा विभज्य पाश्श्वयोरुपदध्याद्यथायोगम् ३

अपि वै तस्मिंश्चतु रश्रं समस्य तस्य करण्यापच्छिद्य यदतिशिष्यतेत-दितरत्रोपदध्यात् ४

दीर्घचतुरश्रं समचतुरश्रं चिकीर्षं स्तिर्यङ्मानीं करणीं कृत्वा शेषं द्वे धा विभज्य पाश्श्वयोरुपदध्यात् । खण्डमावापेन तत्सं -पूरयेत् । तस्य निर्हार उक्तः ५

चतुरश्रमेकतोऽणिमच्चिकीर्षन्नणिम-तः करणीं तिर्यङ्मानीं कृत्वा शेषमक्ष्णया विभज्य विपर्यस्येतरत्रोपद-ध्यात् ६

चतुरश्रं प्रौगं चिकीर्षन्यावच्चिकीर्षेद्द्विस्तावतीं भूमिं समच-तुरश्रां कृत्वा पूर्वस्याः करण्याः मध्येशङ्कुं निहन्यात् । तस्मिन्पाशौ प्रतिमुच्य दक्षिणोत्तरयोः श्रोण्योर्निपातयेत् । बहिस्पन्द्यमपच्छिन्द्यात् ७

चतुरश्रमु भयतः प्रौगं चिकीर्षन्यावच्चिकीर्षेद्द्विस्तावतीं भूमिं दीर्घ-चतुरश्रां कृत्वा पूर्वस्याः करण्याः मध्येशङ्कुं निहन्यात् । तस्मिन्पा-शौ प्रतिमु च्य दक्षिणोत्तरयोर्मध्यदेशयोर्निपातयेत् । बहिःस्पन्द्यमप-च्छिन्द्यात् । एतेनापरं प्रउगं व्याख्यातम् ८

चतुरश्रं मण्डलं चि-कीर्षन्नक्ष्णयार्धं मध्यात्प्राचीमभ्यापातयेत् । यदतिशिष्यतेतस्य सह तृतीयेन मण्डलं परिलिखेत् ९

मण्डलं चतुरश्रं चिकीर्षन्विष्कम्भम-ष्टौ भागान्कृत्वा भागमेकोनत्रिंशधा विभज्याष्टाविंशतिभागानुद्धरेत् । भागस्य च षष्ठमष्टमभागोनम् १०

अपि वा पञ्चदशभागान्कृत्वा द्वा-वुद्धरेत् । सैषानित्या चतुरश्रकरणी ११

प्रमाणं तृतीयेन वर्धयेत्तच्च चतुर्थेनात्मचतुस्त्रिं शोनेन । सविशेषः १२

Hits: 198
X

Right Click

No right click