अथेमेऽग्निचयाः १

तेषां भूमेः परिमाणविहारान्व्याख्यास्यामः २

अथाङ्गुलप्रमाणं चतुर्दशाणवः चतुस्त्रिंशत्तिलाः पृथु संश्लिष्टा इत्यपरम् । दशाङ्गुलं क्षुद्रपदम् । द्वादश प्रादेशः । पृथोत्तरयु गेत्रयोदशिके। पदं पञ्चदश । अष्टाशीतिशतमीषा । चतुःशतमक्षः । षड-शीतिर्यु गम् । द्वात्रिंशज्जानुः । षटि् त्रंशच्छम्याबाहू । द्विपदः प्र-क्रमः । द्वौ प्रादेशावरत्निः । अथाप्युदाहरन्ति पदेयुगेप्रक्रमेऽर-त्नावियति शम्यायां च मानार्थेषु याथाकामीति । पञ्चारत्निः पुरुषो व्यामश्च । चतुररत्निव्व्या यामः ३

चतुरश्रं चिकीर्षन्यावच्चिकीर्षेत्ताव-तीं रज्जुमुभयतः पाशां कृत्वा मध्येलक्षणं करोति । लेखामालिख्य तस्या मध्येशङ्कुं निहन्यात् । तस्मिन्पाशौ प्रतिमुच्य लक्षणेन म-ण्डलं परिलिखेत् । विष्कम्भान्तयोः शङ्कत्न निहन्यात् । पूर्वस्मि-न्पाशं प्रतिमु च्य पाशेन मण्डलं परिलिखेत् । एवमपरस्मिं स्तेयत्र समेयातां तेन द्वितीयं विष्कम्भमायच्छे त् । विष्कम्भान्तयोः शङ्कत्न निहन्यात् । पूर्वस्मिन्पाशौ प्रतिमु च्य लक्षणेन मण्डलं परिलिखेत् । एवं दक्षिणत एवं पश्चादेवमु त्तरतस्तेषां येऽन्त्याः सं सर्गा स्तच्चतु रश्रं सं पद्यते  ४

अथापरम् । प्रमाणाद्द्विगुणां रज्जु मु भयतः पाशां कृत्वा मध्येलक्षणं करोति । स प्राच्यर्थः । अपरस्मिन्नर्धेचतुर्भागोनेलक्षणं करोति । तन्न्यञ्चनम् । अर्धेंऽसार्थं । पृष्ठ्यान्तयोः पाशौ प्रतिमुच्यन्यञ्चनेन दक्षिणापायम्यार्धेन श्रोण्यं सान्निर्हरेत् ५

दीर्घचतुरश्रं चिकी-र्षन्याव-च्चिकीर्षेत्तावत्यां भूम्यां द्वौ शङ्कत्न निहन्यात् । द्वौ द्वावेक -कमभितः समौ । यावती तिर्यङ्मानी तावतीं रज्जु मु भयतः पाशां कृत्वा मध्येलक्षणं करोति । पूर्वेषामन्त्ययोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणेलक्षणं करोति । मध्यमेपाशौ प्रतिमुच्य लक्ष-णस्योपरिष्टाद्दक्षिणापायम्य लक्षणेशङ्कुं निहन्यात् । सोंऽस एतेनोत्त-रोंऽसो व्याख्यातस्तथा श्रोणी ६

यत्र पुरस्तादं हीयसीं मिनु यात्तत्र तदर्धे लक्षणं करोति ७

अथापरम् । प्रमाणादध्यर्धां रज्जुमुभयतः पाशां कृत्वापरस्मिं स्तृतीयेषड् भागोनेलक्षणं करोति । तन्न्यञ्छनम् । इष्टेंऽसार्थम् । पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य न्यञ्छनेन दक्षिणापाय-म्येष्टेन श्रोण्यं सान्निर्हरेत् ८

समचतुरश्रस्याक्ष्णयारज्जु द्वि स्तावतीं भूमिं करोति ९

प्रमाणं तिर्यग्द्विकरण्यायामस्तस्याक्ष्णयारज्जु स्त्रिकरणी १०

तृतीयकरण्येतेन व्याख्याता नवमस्तु भूमेर्भागो भवतीति ११

दीर्घचतुरश्रस्याक्ष्णयारज्जुः पार्श्श्वमानी तिर्यङ्मानी च यत्पृथग्भूते कुरुतस्तदुभयं करोति १२

तासां त्रिकचतुस्कयोद्द्वादशिकपञ्चिकयोः पञ्चदशिकाष्टिकयोः सप्तिकचतुर्विंशिकयोद्द्वा दशिकपञ्चत्रिंशिकयोः पञ्चदशिकषटि्त्रंशिकयोरित्येतासूपलब्धिः १३

Hits: 274
X

Right Click

No right click