दशमोऽध्याय: प्रथम आह्निक:

इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथ: सुखदु:खयोरर्थान्तरभाव:

१ संशयनिर्णयान्तराभावश्र्च ज्ञानान्तरत्वे हेतु:
२ तयोनिष्पत्ति: प्रत्यक्षलैङ्गिकाभ्याम्
३ अभूदित्यपि
४ सति च कार्यादर्शनात्
५ एकार्थसमवायिकारणान्तरेषु दृष्टत्वात्
६ एकदेशे इत्येकस्मिञ्शिर: पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्य:
७ इति प्रथम आह्निक:

दशमोऽध्याय: द्वितीय आह्निक:

कारणमिति द्रव्ये कार्यसमवायात्

१ संयोगाद्वा
२ कारणे समवायात्कर्माणि
३ तथा रूपे कारणैकार्थसमवायाच्च
४ कारणसमवायात्संयोग: पटस्य
५ कारणकारणसमवायाच्च
६ संयुक्तसमवायादग्नेर्वैशेषिकम्
७ दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय
८ तद्वचनादाम्रायस्य प्रामाण्यमिति
९ इति द्वितीय आह्निक:
इति दशमोऽध्याय:
इति वैशेषिकदर्शनम्

Hits: 429
X

Right Click

No right click