नवमोऽध्याय: प्रथम आह्निक:
क्रियागुणव्यपदेशाभावात्प्रागसत्
१ सदसत्
२ असत: क्रयागुणव्यपदेशाभावादर्थान्तरम्
३ सच्चासत्
४ यच्चान्यदसदतस्तदसत्
५ असदिति भूतप्रत्यक्षाभावाद्भुतस्मृतेर्विरोधिप्रत्यक्षवत्
६ तथाभावे भावप्रत्यक्षत्वाच्च
७ एतेनाघटोऽगौरधर्मश्र्च व्याख्यात:
८ अभूतं नास्तीत्यनर्थान्तरम्
९ नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेध:
१० आत्मन्यात्ममनसो: संयोगविशेषादात्मप्रत्यक्षम्
११ तथा द्रव्यान्तरेषु प्रत्यक्षम्
१२ असमाहितान्त करणा उपसंहृतसमाधयस्तेषाञ्च
१३ तत्समवायात्कर्मगुणेषु
१४ आत्मसमवायादात्मगुणेषु
१५ इति प्रथम आह्निक:
नवमोऽध्याय: द्वितीय आह्निक:
अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गकम्
१ अस्येदं कार्यकारणसम्बन्धश्र्चावयवाद्भवति
२ एतेन शाब्दं व्याख्यातम्
३ हेतुरपदेशो लिङ्गं प्रमाणम करणमित्यनर्थान्तरम्
४ अस्येदं बुद्ध्यपेक्षितत्वात्
५ आत्ममनसो: संयोगविशेषात्संस्काराच्च स्मृति:
६ तथा स्वप्न:
७ स्वप्नान्तिकम्
८ धर्माच्च
९ इन्द्रियदोषातसंस्कारदोषाच्चाविद्या
१० तद्दुष्टज्ञानम्
११ अदुष्टं विद्या
१२ आर्ष सिद्धदरशनम च धर्मेभ्य:
१३ इति द्वितीय आह्निक: इति नवमोऽध्याय:य: