अष्टमोऽध्याय: प्रथम आह्निक:
द्रव्येषु ज्ञानं व्याख्यातम्
१ तत्रात्मा मनश्र्चाप्रत्यक्षे
२ ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्त:
३ गुणकर्मसु संनिकृष्टेषु ज्ञाननिष्पत्तेरद्रव्यं कारणम्
४ सामान्यविशेषेषुसामान्यविशेषभावात्तदेव ज्ञानम्
५ सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु
६ द्रव्ये द्रव्यगुणकर्मापेक्षम्
७ गुणकर्मसु गुणकर्माभावाद्गुणकर्मापेक्षं न विद्यते
८ समवायिन: श्र्वैत्याच्छ्वैत्यबुद्धेश्र्च श्र्वेते बुद्धिस्ते एते कार्यकारणभूते
९ द्रव्येष्वनितरेतरकारणा:
१० कारणायौगपद्यात्कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात्
११ इति प्रथम आह्निक:
अष्टमोऽध्याय: द्वितीय आह्निक:
अयमेष त्वया कृतं भोजयैनमिति बुद्ध्यपेक्षम्
१ दृष्टेषु भावाददृष्टेष्वभावात्
२ अर्थ इति द्रव्यगुणकर्मसु
३ द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम्
४ भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृति:
५ तथापस्तेजो वायुश्र्च रसरूपस्पर्शविशेषात्
६ इति द्वितीय आह्निक: इत्यष्टमोऽध्याय: