सप्तमोऽध्याय: प्रथम आह्निक:

उक्ता गुणा:

१ पृथिव्यादिरूपरसगनधस्पर्शा द्रव्यानित्यत्वादनित्याश्र्च
२ एतेन नित्येषु नित्यत्वमुक्तम्
३ अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात्
४ अनित्येष्वनित्याद्रव्यानित्यत्वात्
५ कारणगुणपूर्वका: पृथिव्यां पाकजा:
६ एकद्रव्यत्वात्
७ अणोर्महतश्र्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते
८ कारणबहुत्वाच्च
९ अतो विपरीतमनु
१० अणुमहदिति तस्मिन्विशेषभावाद्विशेक्षाभावाच्च
११ एककालत्वात्
१२ दृष्टान्ताच्च
१३ अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभाव: कर्मगुणैर्व्याख्यात:
१४ कर्मभि: कर्माणि गुणैश्र्व गुणा व्याख्याता:
१५ अणुत्वमहत्त्वाभ्यां कर्मगुणाश्र्च व्याख्याता:
१६ एतेन दीर्घत्वहृस्वत्वे व्याख्याते
१७ अनित्येऽनित्यम्
१८ नित्येनित्यम्
१९ नित्यं परिमण्डलम्
२० अविद्या चा विद्यालिङ्गम्
२१ विभवान्महानाकाशस्तथा चात्मा
२२ तदभावादणु मन:
२३ गुणेर्दिग्व्याख्याता
२४ कारणे काल:
२५ इति प्रथम आह्निक:

सप्तमोऽध्याय: द्वितीय आह्निक:

रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम्

१ तथा पृथक्त्वम्
२ एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यात:
३ नि:संख्यत्वात्कर्मगुणानां सर्वेकत्वं न विद्यते
४ भ्रान्तं तत्
५ एकत्वाभावाद्भक्तिस्तु न विद्यते
७ एतदनित्ययोर्व्याख्यातम्
८ अन्यतरकर्मज उभयकर्मज: संयोगजश्र्च संयोग:
९ एतेन विभागो व्याख्यात:
१० संयोगविभागयो: संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यात:
११ कर्मभि: कर्माणि गुणैर्गुणा अणुत्वमहत्त्वाभ्यामिति
१२ युतसिद्ध्यभावात्कार्यकारणयो: संयोगविभागौ न विद्येते
१३ गुणत्वात्
१४ गुणोऽपि विभाव्यते
१५ निष्क्रियत्वात्
१६ असति नास्तिति च प्रयोगात्
१७ शब्दार्थावसम्बधौ
१८ संयोगिनो दण्डात्समवायिनो विशेषाच्च
१९ सामयिक: शब्दादर्थप्रत्यय:
२० एकदिक्काभ्यामेककालाभ्यां संनिकृष्टविप्रकृष्टाभ्यां परमपरं च
२१ कारणपरत्वात्कारणापरत्वाच्च
२२ परत्वापरत्वयो: परत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यात:
२३ कर्मभि: कर्माणि
२४ गुणैरगुणा:
२५ इहेदमिति यत: कार्यकारणयो: स समवाय:
२६ द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यात:
२७ तत्वं भावेन
२८ इति द्वितीय आह्निक: इति सप्तमोऽध्याय:

Hits: 378
X

Right Click

No right click