षष्ठोऽध्याय: प्रथम आह्निक:

बुद्धिपूर्वा वाक्यकृतिर्वेदे

१ ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम्
२ बुद्धिपूर्वो ददाति:
३ तथा प्रतिग्रह:
४ आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात्
५ तद्दुष्टभोजने न विद्यते
६ दुष्टं हिंसायाम्
७ तस्य समभिव्याहारतो दोष:
८ तददुष्टे न विद्यते
९ पुनर्विशिष्टे प्रवृत्ति:
१० समे हिने वा प्रवृत्ति:
११ एतेन हीनसमविशिष्टधार्मिकेभ्य: परस्वादानं व्याख्यातम्
१२ तथा विरुद्धानां त्याग:
१३ हीने परे त्याग:
१४ समे आत्मत्याग: परत्यागो वा
१५ विशिष्टे आत्मत्याग इति
१६ इति प्रथम आह्निक:


षष्ठोऽध्याय: द्वितीय आह्निक:

दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय

१ अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानप्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्र्चादृष्टाय
२ चातुराश्रम्यमुपधा अनुपधाश्र्च
३ भावदोष उपधादोषोऽनुपधा
४ यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि
५ अशुचीति शुचि प्रतिषेध:
६ अर्थान्तरं च
७ अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद्विद्यते वार्थान्तरत्वाद्यमस्य
असति चाभावात्
९ सुखाद्राग:
१० तन्मयत्वाच्च
११ अदृष्टाच्च
१२ जातिविशेषाच्च
१३ इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्ति:
१४ तत्संयोगो विभाग:
१५ आत्मगुणकर्मसु मोक्षो व्याख्यात:
१६ इति द्वितीय आह्निक: इति षष्ठोऽध्याय:

 

Hits: 409
X

Right Click

No right click