पञ्चमोऽध्याय: प्रथम आह्निक:

आत्मसंयोगप्रयत्नाभ्याम हस्ते कर्म

१ तथा हस्तसंयोगाच्च मुसले कर्म
२ अभिघातजे मुसलादौ कर्मनि व्यतिरेकादकारणं हस्तसंयोग:
३ तथात्मसंयोगो हस्तकर्मणि
४ अभिघातान्मुसलसंयोगाद्धस्ते कर्म
५ आत्मकर्म हस्तसंयोगाच्च
६ संयोगाभावेगुरुत्वात्पतनम्
७ नोदनविशेषादुदसनविशेष:
१० हस्तकर्मणा दारककर्म व्याख्यातम्
११ तथा दग्धस्य विस्फोटने
१२ प्रयत्नाबावे प्रसुप्तस्य चलनम्
१३ तृणे कर्म वायुसंयोगात्
१४ मणिगमनं सूच्यभिसर्पणमदृष्टकारणम्
१५ इषावयुगपत्संयोगविशेषा: कर्मान्वत्वे हेतु:
१६ नोदनादाद्यमिषो: कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च
१७ संस्काराभावे गुरुत्वात्पतनम्
१८ इति प्रथम आह्निक:

पञ्चमोऽध्याय: द्वितीय आह्निक:

नोदनापीडनात्संयुक्तसंयोगाच्च पृथिव्यां कर्म

१ तद्विशेषेणादृष्टकारितम्
२ अपां संयोगाभावे गुरुत्वात्पतनम्
३ द्रवत्वात्स्यन्दनम्
४ नाड्योवायुसंयोगादारोहणम्
५ नोदनापीडनात्संयुक्तसंयोगाच्च
६ वृक्षाभिसरपणमित्यदृष्टकारितम्
७ अपां संघातो विलयनं च तेज: संयोगात्
८ तत्र विस्फूर्जथुर्लिङ्गम्
९ वैदिकंच
१० अपां संयोगाद्विभागाच्च स्तनयित्नो:
११ पृथिविकर्मणा तेज: कर्म वायुकर्म च व्याख्यातम्
१२ अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसंश्र्चाद्यकर्मादृष्टकारितम्
१३ हस्तकर्मणा मनस: कर्म व्याख्यातम्
१४ आत्मेन्द्रियमनोऽर्थसंनिकर्षात्सुखदु:खम्
१५ तदनारम्भ आत्मस्थे मनसि शरीरस्य दु:खाभाव: संयोग:
१६ अपसर्पणमुपसर्पणमशितपीतसंयोगा: कार्यान्तरसंयोगाश्र्चेत्यदृष्टकारितानि
१७ तदभावे संयोगाबावोऽप्रादुर्भावश्र्च मोक्ष:
१८ द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्म:
१९ तेजसो द्रव्यान्तरेणावरणाच्च
२० दिक्कालावाकाशम च क्रियावद्वैधर्म्यान्निष्क्रियाणि
२१ एतेन कर्माणि गुणाश्र्च व्याख्याता:
२२ गुणैर्दिग्व्याख्याता
२५ कारणेन काल:
२६ इति द्वितीय आह्निक: इति पञ्चमोऽध्याय:

 

Hits: 417
X

Right Click

No right click