चतुर्थोध्याय: प्रथम आह्निक:

सदकारणवन्नित्यम्

१ तस्य कार्यम लिङ्गम्
२ कारणभावात्कार्यभाव:
३ अनित्य इति विशेषत: प्रतिषेधभाव:
४ अविद्या
५ महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धि:
६ सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धि:
७ अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धि:
८ तेन रसगन्धस्पर्शेषु ज्ञानं व्य़ाख्यातुम्
९ तस्याभावादव्यभिचार:
१० संख्या: परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि
११ अरूपिष्वचाक्षुपाणि
१२ एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम्
इति प्रथम आह्निक:

द्वितीय आह्निक:

तत्पन: पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम्

१ प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात्पञ्चात्मकं न विद्यते
२ गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम्
३ अणुसंयोगस्त्वप्रतिषिद्ध:
४ तत्र शरीरम द्विविधं योनिजमयोनिजं च
५ अनियतदिग्देशपूर्वकत्वात्
६ धर्मविशेषाच्च
७ समाख्याभावाच्च
८ संज्ञाया अनादित्वात्
९ सन्त्ययोनिजा:
१० वेदलिङ्गाच्च
११ इति द्वितीय आह्निक: इति चतुर्थोऽध्याय:

 

Hits: 372
X

Right Click

No right click