प्रथमोऽध्याय: प्रथम आह्निक:
अथातो धर्म व्याख्यास्याम:
१ यतोऽभ्युदयनि:श्रेयससिद्धि: स धर्म:
२ तद्वचनादाम्नायस्य प्रामाण्यम्
३ धर्मविशेषप्रसूताद्द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानाम साधर्म्याभ्यां तत्वज्ञानान्नि: श्रेयसम्
४ परतिव्यापस्तेजो वायुराकाशम कालो दिगात्मा मन इति द्रव्यानि
५ रूपरसगन्धस्पर्शा: संख्या: परिमाणानि परथक्त्वं संयोगविभागौपरत्वापरत्वे बुद्धय; सुखदु:खे इच्छाद्वेषौ प्रयत्नाश्र्च गुणा:
६ उत्क्षेपनमवक्षेपनमाकुञ्चनं प्रसारणं गमनमिति कर्माणि
७ सदनित्यं द्रव्यवत्कार्यं कारणं र्सामान्यविशेषवदिति द्व्यगुणकर्मणामविशेष:
८ द्व्यगुणयो: सजातीयारम्भकत्वं साधर्म्यम्
९ द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्र्च गुणान्तरम्
१० कर्मकर्मसाध्यं न विद्यते
११ न द्रव्यं कार्यं कारणं च बधति
१२ उभयथा गुणा;
१३ कार्यविरोधि कर्म
१४ क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम्
१५ द्रव्याश्रय्यगुणवान्संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्
१६ एकद्रव्यमगुणां द्रव्यं कारणं सामान्यम्
१८ तथा गुण:
१९ संयोगविभागवेगानां करम समानम्
२० न द्रव्याणां कर्म
२१ व्यतिरेकात्
२२ द्रव्याणां द्रव्यं कार्यं सामान्यम्
२३ गुणवैधर्म्यान्न कर्मणां कर्म
२४ द्वित्वप्रभृतय: संख्या: पृथक्त्वसंयोगविभागाश्र्च
२५ असमवायात्सामान्य कार्यं कर्म न विद्यते
२६ संयोगानां द्रव्यम्
२७ रूपाणां रूपम्
२८ गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम्
२९ संयोगविभागाश्र्च कर्मनाम्
३० कारणसामान्ये द्रव्यकर्मणां कर्माकारनमुक्तम्
इति प्रथम आह्निक:

प्रथमोऽध्याय: द्वितीय आह्निक: 

कारणभावात्कारयाभाव:

१ न तु कार्याभावात्कारणभाव:
२ सामान्य विशेष इति बुद्ध्यपेक्षम्
३ भावोनुवृत्तेरेव हेतुत्वात्सामान्यमेव
४ द्रव्यत्वं गुणत्बं कर्मत्वं च सामान्यानि विशेषाश्र्च
५ अन्यत्रान्त्येभ्यो विशेषेभ्य:
६ सदिति यतो द्रव्यगुणकर्मसु सा सत्ता
७ द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता
८ गुणकर्मसु च भावान्न कर्म न गुण:
९ सामान्यविशेषाभावेन च
१० अनेकद्रव्यवत्त्वेन द्रवयत्वमुक्तम्
११ सामान्यविशेषाभावेन च
१२ तथा गुणेषु भावाद्गुणत्वमुक्तम्
१३ सामान्यविशेषाभावेन च
१४ कर्मसु भावात्कर्मत्वमुक्तम्
१५ सामान्यविशेषाभावेन च
१६ सदिति लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैकोभाव: १६

इति द्वितीय आह्निक: इति प्रथमोऽध्याय:

Hits: 471
X

Right Click

No right click