द्वितीयोऽध्याय: प्रथम आह्निक:

रूपरसगन्धस्पर्शवती पृथिवि

१ रूपरसस्पर्सवत्य आपो द्रवा: स्निग्धा:

२ तेजो रूपस्पर्शवत्

३ स्पर्शवान्वाय:

४ त आकाशे न विद्यन्ते

५ सर्पर्जतुमधूच्छिष्टानामग्निसंयोगाद्द्रवत्वमद्भि: सामान्यम्

६ त्रपुसीसलोहरजतसुवर्णानामग्निसंयोगाद्द्रवत्वमद्भि: सामान्यम्

७ विषाणी ककुद्यान्प्रान्तेबालधि: सास्रावानिति गोत्वे दृष्टं लिङ्गम्

८ स्पर्शश्र्च वायो:

९ न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायु:

१० अद्रव्यवत्त्वेन द्रव्यम्

११ क्रयावत्वाद्गुनवत्त्वाच्च

१२ अद्रव्यवत्त्वेन नित्यत्वमुक्तम्

१३ वायोर्वायुसम्मूर्च्छनं नानात्वलिङ्गम्

१४ वायुसंनिकर्षे प्रत्यक्षाभावादृष्टं लिङ्गं न विद्यते

१५ सामान्यतो दृष्टाच्चाविशेष:

१६ तस्मादागमिकम्

१७ संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम्

१८ प्रत्यक्षप्रवृत्तत्वात्संज्ञाकर्मण:

१९ निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम्

२० तदलिङ्गमेकद्रव्यत्वात्कर्मण:

२१ कारणान्तरानुक्लृप्तिवैधर्म्याच्च

२२ संयोगादभाव: कर्मण:

२३ कारणगुणपूर्वक: कार्यगुणोदृष्ट:

२४ कार्यान्तराप्रादुर्भावाच्च शब्द: स्पर्शवतामगुण:

२५ परत्र समवायात्प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुण:

२६ परिशेषाल्लिङ्गमाकाशस्य

२७ द्रव्यत्वनित्यत्वे वायुना व्याख्याते

२८ तत्त्वं भावेन

२९ शब्दलिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च

३० तदनुविधानादेकपृथक्त्वं चेति
इति प्रथम आह्निक:

द्वितीय आह्निक:
पुष्पवस्त्रयो: सति संनिकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम्
१ व्यवस्थित: पृथिव्यां गन्ध:
२ एतेनोष्णता व्याख्याता
३ तेजस उष्णता
४ अप्सु शीतता
५ अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति काललिङ्गानि
६ द्रव्यत्वनित्यत्वे वायुना व्याख्याते
७ तत्त्वं भावेन
८ नित्येष्वभावादनित्येषु भावात्कारणे कालाख्येति
९ इत इदमिति यतस्तद्दिश्यं लिङ्गम्
१० द्रव्यत्वनित्यत्वे वायुना व्याख्याते
११ तत्त्वं भावेन
१२ कार्यविशेषेण नानात्वम्
१३ आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची
१४ तथा दक्षिणा प्रतीची उदीची च
१५ एतेन दिगन्तरालानि व्याख्यातानि
१६ सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्र्च संशय:
१७ दृष्टंच दृष्टवत्
१८ यथादृष्टमयथादृष्टत्वाच्च
१९ विद्याविद्यातश्र्च संशय:
२० श्रोत्रग्रहणोयोऽर्थ: स शब्द:
२१ तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात्
२२ एकद्रव्यत्वान्न द्रव्यम्
२३ नापि कर्माचाक्षुषत्वात्
२४ गुणस्य सतोऽपवर्ग: कर्मभि: साधर्म्यम्
२५ सतो लिङ्गाभावात्
२६ नित्यवैधर्म्यात्
२७ अनित्यश्र्चायं कारणत:
२८ न चासिद्धम विकारात्
२९ अभिव्यक्तो दोषात्
३० संयोगाद्विभागाच्चशब्दाच्च शब्दनिष्पत्ति:
३१ लिङ्गाच्चानित्य: शब्द:
३२ द्वयोस्तु प्रवृत्त्योरभावात्
३३ प्रथमाशब्दात्
३४ सम्प्रतिपत्तिभावाच्च
३५ संदिग्धा: सति बहुत्वे
३६ संख्याभाव: सामान्यत:
३७ इति द्वितीय आह्निक इति द्वितीयोऽध्याय:

Hits: 435
X

Right Click

No right click